________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥” इत्युक्तरीत्या धर्मसंस्थापनादिवयकृते स्वागधकदशरथमनोरथपरिपूरणाय चावतितीर्घराज गामेत्याइ-एतस्मिन्निति । एतस्मिन्नन्तरे रक्षापेक्षासमये । अनेन चिरमस्यावसरप्रतीक्षत्वं गम्यते । “सर्वज्ञोऽपि हि देवेशस्सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षा प्रतीक्षते ॥” इति युक्तम् । विष्णुः सर्वान्तर्यामितया ज्याप्य वर्तमानः, भोगादप्यासेधनमेव वरमिति स्थित इत्यर्थः । “त्वं मेऽहं में" इत्यादि । महाद्युतिः रक्षणावकाशलाभसमुदितहर्षप्रकर्षकृतकान्तिविशेषयुक्तः । अनेनेतःपूर्व संसारिजनदुर्दशावलोकनेन दूयमानमानसत्त्व मुक्तम् । “स एकाकी न रमेत" इति श्रुतेः । शङ्खचक्रगदापाणिः-आश्रितानां रक्षणापेक्षायां रक्षणोपकरणग्रहणाय विलम्बो माभूदिति सर्वदा तरुपेतः। “पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधी विवत्स नः श्रीरङ्गनायकः ॥” इत्यभियुक्तोक्तम् । पीतवासाः आश्रितरक्षणत्वरया बद्धकक्षः। जगत्पतिः-उक्तसकलविशेषहेतुभूतस्वस्वामिभावसम्बन्धवान् । उपयातः वैकुण्ठात् दशरथयज्ञबाटमाजगाम ॥ १६॥ तनि०-एतस्मिन्नन्तरे तेषां रक्षापेक्षावसरे । एतस्मिन्नन्तरे क्षणं विलंबितं चेत् त एवागच्छन्ति ततः पूर्वमेव गन्तव्यमिति । एतस्मिन्नन्तरे देवगोष्ठयां यदा रक्षाप्रसङ्ग जातस्तदेव ज्ञातमिति | सर्वज्ञस्यास्याश्रितरक्षानुकूल्यमार्जवं च व्यजितम् । एतस्मिन्नन्तरे अन्यस्य चेद्रक्षणमनुमतम् , स्वस्थ रक्ष्यलाभो न स्यादिति “ अतन्धितचमूपतिपाहितहस्तम्" इत्यादिवत् त्वराधिक्यं गम्यते । उपयातः देवानामपि त्वरातिशयेन मध्येमार्ग मेलनं यथा न स्याचथोपयातः । यस्य फलापेक्षा स एव फलप्राप्त्यर्थ स्वयमेवागच्छती त्युपेक्षामकृत्वा उपयातः । रक्षणप्रसङ्गविच्छेदभयेन यावदासनमपरिज्ञात एवोपयातः । “स चापि रामः परिषद्गतः शनैः” इत्यादिवत् । विष्णुरुपयातः । पूर्वमेव तत्र स्थितोऽपि इदानी विग्रहेणाभिव्यक्तस्सन्नुपयातः । सर्वेश्वरोऽप्युपयात इति सौलायमुक्तम् । एतस्मिन्नन्तरे विष्णुरुपयात इति देवाः विधिशिवादिषु कञ्चन रावणहनने प्रार्थयेयुः, तदा ते तदननाशक्त्या नोचरं ब्रूयुः, तदा तेषामवमतिश्शरणागतारक्षणजन्यमानससेदश्च स्यातामिति तेषामवमानमानसखेदी माभूतामित्यविलम्बितमुपयातः। महाद्युतिरुपयात इति “ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भास्सदृशी सा स्यादासस्तस्य महात्मनः ॥" इत्याद्युक्तदुःसहापमेयतेजोवत्त्वेऽपि तादृशतेजसस्सर्व जनालादकत्वं व्यज्यते । विष्णुमहाद्यतिरिति स्वरूपवहचुतेरप्यपरिमेयत्वं ध्वनितम् । विष्णुरुपयात इति उपगमनसमकालमेव शिवादीनामवमानभयमिन्द्रादीनां रावण भयं च निवृत्तमिति ध्वनितम् । शंखचक्रगदापाणिः “ नैनं सूर्यः प्रतपति " इत्यायुक्तरीत्या स्वस्वव्यापारेष्वपि सङ्कोचवन्तस्स्वपद शशतिनो देवास्सभासु निःशङ्क किल रावणवधोपायमालोचयन्ति । तदानीमेव चेद्रावणस्तत्र आगच्छति तदा सकलदेवशिरश्छेदकः स्यात्, सकललोकशरण्यत्वहानिस्स्वस्य भवेदिति ततः पूर्वमेवा युधादिसकलयुद्धपरिकरयुक्त एवागतः, न तु भोजनपरिक उक्त इति । भागप्रतिग्रहार्थत्वं त्वानुषङ्गिकम् । पीतवासाः “तम्य महारजतं वासः" इत्यायुक्तपीताम्बरयुक्तः ।
Sha
For Private And Personal Use Only