________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ दशरथाराधनव्याजेन साधुलोकरक्षणाय भूमाववतितीर्घभंगवानानुषङ्गिकदुष्कृविनाशाय देवैरभ्यर्थ्यते पञ्चदशे मेधावीत्यादि । ततः प्रतिज्ञान | अन्तरम् । मेधावी मेघा धारणक्षमा धीः, तद्वान् । “अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः । वेदज्ञः अथर्वणवेदज्ञःस ऋश्य-शृङ्गः किश्चिद् घ्यावा किं कर्म कर्तुमत्रोचितमिति क्षणं विचिन्त्य, मेधावितया ततः तदुत्तरक्षण एव लन्धसंज्ञः प्राप्तस्मृतिः सन् तं नृपमिदमुत्तरमत्रवीत्, द्विक। मको अविः ॥ १॥ इष्टिमिति । पुत्रीयां पुत्रोत्पत्तिनिमित्तभूताम्, “पुत्राच्छ च" इति छप्रत्ययः । इष्टिं यागविशेषम् । ते पुत्रकारणात् पुत्रनिमित्तम् ।। 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" इति पञ्चमी । करिष्यामीत्युक्तवान् । मन्त्रदृष्टेन वेदावगतेन कर्मणा अग्नौ जुहाव च । शास्त्रदृष्टक्रमेण
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१॥इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥२॥ ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकार णात् । जुहाव चाग्री तेजस्वी मन्त्रदृष्टेन कर्मणा ॥३॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। भागप्रतिग्रहार्थ वै समवेता यथाविधि ॥४॥ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवन् लोककरिं ब्रह्माणं वचनं महत् ॥५॥ भगवन स्वत्प्रसादेन रावणो नाम राक्षसः। सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥६॥ त्वया तस्मै वरो दत्तःप्रीतेन भगवन् पुरा। मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥७॥ एकामाहुतिमकरोदित्यर्थः ॥२॥३॥ एतच्छेषं ततो वे यजमानस्य' इत्यादिना वृक्ष्यति । मध्ये भगवदवतरणस्य निमित्तान्तरं देवताभ्यर्थनं दर्श। यति-तत इत्यादिना । ततः तत्राश्वमेधे, देवादयः यथाविधि यथाक्रमं भागप्रतिग्रहाथै स्वस्वहविर्भागस्वीकारार्थ, समवेताः संमिलिताः, यज्ञसदसीति शेषः । अनुक्तसमुच्चयार्थेन चकारेण ब्रह्मापि समुच्चीयते॥४ाता इति। ताः देवताः तस्मिन् । प्रकृते सदसि अश्वमेघसदसि । यथान्यायं यथाक्रमम् ।समेत्य लोककतारं स्वस्वामिनं ब्रह्माणं महत् फलद्वारा गुरुतरं वचनमब्रुवन् ॥५॥ भगवनिति । त्वत्प्रसादेन जनिताद्वीर्यादित्यन्वयः ॥६॥ को मत्प्रसादः कथं मेधावीति ।अतीन्द्रियार्थदर्शी साध्यात्वादशरथस्य पुत्रसिद्धि केन कर्मणा भवेदिति विचिन्त्य । लब्धसंज्ञाप्राप्तनिश्चयः॥१॥इष्टिमिति। पुत्रीयां पुत्रोत्पत्तिनिमित्तभूता पुत्रकारणात पुत्रोत्पादनकारणत्वेन विधानात्। अथर्वशिरसि सिद्धां निष्पन्नाम् विधानतःशास्त्रोक्तप्रकारेण मन्त्रदृष्टेन मन्त्रप्रकाशितेन॥२-६॥ त्वयेति । तत्वदत्तवरम्। तं
विषम-नकाराहापि समुचीयते ॥ ४॥ समेत्य अन्तनिशम्या इतरानवलोकमिति शेषः ॥ ५॥
For Private And Personal Use Only