________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तस्मादृत्विजोऽब्रुवन्नित्यन्वयः । यद्यपि " महापृथिवी न देया " इति इदं निषिद्धं तथाप्यत्र प्रदेशविशेष एव दत्त इति ज्ञेयम्, प्रतिषेधवदत्र विधे रपि दर्शनात् केसरिदानव द्विकल्पो वा ॥ ४३ ॥ ४४ ॥ न भूम्येति सार्द्धश्लोकः । अशक्तौ हेतुः -रता इति । स्वाध्यायकरणे स्वाध्यायाध्ययने ॥ कथं दत्तस्य पुनरपहारस्तत्राह - निष्क्रयमिति । निष्क्रयं मूल्यम् कृत्स्नपृथिव्या मूल्यं कुतो लभ्यते ? तबाह किञ्चिदिति । यथोपपन्नमित्यर्थः॥४६॥ किञ्चिदित्यस्य प्रपञ्चः - मणीति । मणिरत्नं मणिश्रेष्ठम्, समुद्यतं समुपस्थितम् । एवमिति । नरपतिरेवमुक्तः सन् दशशतसहस्राणि दशलक्षमिति यावत् । ददौ ॥ ४७ ॥ दशेत्यर्द्धमेकं वाक्यम् । नृप इत्यस्य पूर्वश्लोकस्थस्यात्रान्वयः । चतुर्गुणं चतुर्दशकोटीरित्यर्थः । अत्र रजतानि प्रतिनिधित्वन
ऋत्विजश्चानुवन् सर्व राजानं गतकल्मषम् । भवानेव महीं कृत्स्ना मेको रक्षितुमर्हति ॥ ४४ ॥ न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने । रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप। निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवा निति ॥ ४५ ॥ मणिरत्नं सुवर्ण वा गावो यद्वा समुद्यतम् । तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ ४६ ॥ एव मुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ ४७ ॥ दशकोटी सुवर्णस्य रजतस्य चतुर्गुणम् ॥ ४८ ॥ ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु । ऋयशृङ्गायमुनये वसिष्टाय च धीमते ॥ ४९ ॥ ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः । सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ५० ॥ दत्तानि, न तु दक्षिणात्वेन । अतः - " x तस्मात हिरण्यमदक्षिण्यम्” इति श्रुत्या न विशेषः ॥ ४८ ॥ ऋत्विज इति । सर्वे ऋत्विजः सहिताः सन्तः वसु दक्षिणाप्राप्तं धनम् अंशीकृत्य दानाय ऋश्यशृङ्गाय वसिष्टाय च ददुः ॥ ४९ ॥ तत इति । न्यायतः शास्त्रतः " यावदध्वर्यवे ददाति विति द्विवचनेन अतिरात्रस्य द्विरावृत्तिर्गम्यते ॥ ४०-४३ ॥ ऋत्विज इत्यादि । अमूल्यमिमां पृथ्वीं निष्क्रियेण कथं क्रीणीयामित्यत्राह निष्क्रयं किञ्चिदेवेति । तव । शक्त्यनुसारेणास्मदभिलषितानुसारेण वेत्यर्थः । निष्क्रयतेऽनेनेति व्युत्पन्या मूल्यमुच्यते ॥ ४४ ॥ ४५ ॥ मणीति । मणिरत्नं मणिश्रेष्ठम् । समुद्यतमुपस्थितम् ॥ ४६ ॥ एवमुक्त इति । नरपतिशब्दो यौगिकः, नृपशब्दो रुदयां वर्तते, अतो न पौनरुत्तयम्। दशकोटीरित्यर्थं पूर्वेण सम्बध्यते ॥ ४७ ॥ ४८ ॥ ऋत्विज इति
x यदवशीयत जसं हिरण्यमभवत् तस्माद्रजतर हिरण्यमदक्षिण्यम हि यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रूपति तस्माद्वर्हिषि न देयम् । इति श्रुतिः ।
For Private And Personal Use Only