________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥७७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अश्वमेघः त्र्यहः सङ्ख्यातः । अश्वमेधस्याने काहसाध्यत्वेऽपि सवतीयाहानां प्राधान्यात्तद्रग्रहः । त्रीणि अहानि यस्य स व्यहः । " अचप्रत्यन्ववइत्यत्र योगविभागादच् । इदमर्द्धमेकं वाक्यम् । तान्यहानि परिगणयति चतुष्टोममिति । त्रिवृत्पञ्चदशः सप्तदश एकविंश इति स्तोमचतुष्टययुक्त त्वादग्निष्टोमश्वतुष्टोम इत्युच्यते । तदनुष्ठानयुक्तत्वात्तद्वयपदेशः । एकविंशेोकव्ययुक्तत्वादुक्थ्यमिति ज्योतिष्टोमस्य द्वितीया संस्था तद्युक्तं द्वितीय महः, सर्वस्तोमोऽतिरात्रः तद्युक्तमुत्तरमहः, द्वितीयादुत्तरं तृतीयमह इत्यर्थः ॥ ३८ ॥ एवमश्वमेधस्य व्यूहलेन त्रयाणां कर्तव्यन्येऽपि प्रकृतेऽश्वमेधे शास्त्रान्तरदर्शनात् विहिता अन्येऽपि बहवः क्रतवो राज्ञा कारिता इत्याह- कारिता इन्पदेन ।। ३९ ।। के ते तव इत्यपेक्षायामाह - ज्योतिष्टोमेति । अतिरात्राविति द्विवचनेन तस्यावृत्तिरुच्यते । विनिर्मितो अनुष्टितौ । अन्यवापि विभक्तिविपरिणामेनायं शब्द अनुपज्यताम् । उक्तदिनत्रयादुत्तरेष्व कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३९ ॥ ज्योतिष्टोमायुषी चैत्रमतिरात्रौ विनिर्मितौ । अभिजिद्विश्व जिच्चैवमातर्यामी महाक्रतुः ॥ ४० ॥ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४१ ॥ उद्गात्रे वै तथोदीची दक्षिणेषा विनिर्मिता । हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ ४२ ॥ ऋतुं समाप्य तु तथा न्यायतः पुरुषर्षभः । ऋग्भ्यो हि ददौ राजा घरां तां ऋतुवर्द्धनः ॥ ४३ ॥
हस्सु ज्योतिष्टोमादयः पट् क्रतवः कारिता इत्यर्थः । शास्त्रान्तरे ज्योतिष्टोमादीनामपि विहितत्वेन पोडशिग्रहणवत्तेषामप्यनुष्ठाने महानभ्युदय इति मन्वानेन राज्ञा तेऽपि कारिता इत्यर्थः । अत्र चचनयुपोच्छ्रय पशु नियोजन व पाहोमचतुष्टामसवनानि क्रमेण वक्तव्यानीति तत्क्रमेण श्लोकाः पठितव्याः । व्युत्क्रमपाठो लेखकप्रमादकृतः । ऋपि वा कममविवक्षन् प्रणिनाय ॥ ४० ॥ अथ दक्षिणादानमाह प्राचीमिति दयमेकम् स्वकुलस्य इक्ष्वाकुकुलस्य वर्द्धनः, बहुदक्षिणा दानं द्युचितमिवाकु कुलस्येति भावः ॥ ४३ ॥ एतावदक्षिणादाने किं प्रमाण तत्राह एषा दक्षिणा विनिर्मिता विहिता, “प्रतिदिशं दक्षिणां ददाति प्राची दिग्योतुदक्षिणा त्रह्मणः प्रतीच्यध्वयोंरुदीच्युगातुः " इत्यादिसूत्रेणेति शेषः । स्वयम्भू विहिते ब्रह्मनिर्मिते । " प्रजापतिरश्वमेधमसृजत "इति श्रुतः ॥ ४२ ॥ ऋतुमित्यादिश्लोकयमेकान्वयम् । न्यायतः शास्त्रतः हि यस्माद्राजा ददौ ॥७७॥ त्रीण्यहानि दर्शयति चतुष्टोममित्यादि ॥ ३८ ॥ इताः क्रतवोऽनुष्ठिता इत्याह-कारिता इति । कारितास्तत्र बहवो विहिताः ) शास्त्रदर्शनात शास्त्रेण चोदितत्वात, विहिताः वेदविहिताः बहवः तदारिन अनुष्ठिता इत्यर्थः ॥ ३९ ॥ तानेव ऋतून परिगणयति-ज्योतिष्टोमेति । आयुरायुर्नाम, अतिरात्रा
For Private And Personal Use Only
टी.बा. कां म० १४