________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
टी.बा.का. स. १४
॥७५॥
विजयन्ती। प्रकृते चयनं विवक्षितम् । शुल्बमेकसरा रज्जुः। शुल्बसाध्यं कर्म शुल्वं चयनम्, अत एवाह रुद्रदत्तः-"रज्जूनां विहरणसाधनत्वादेतत्कम शुल्बमाचष्ट आचार्यः" इति । तत्र कुशलः ब्राह्मणैः यथान्यायं यथाशास्त्रम् । प्रमाणतः प्रमाणेन विशिष्टा इष्टकाः कारिताः। अत्र सूत्रम्-"पादमात्रो ईमात्रोऽणुकमात्र ऋजुरेखादक्षिणावृतासव्यावृतास्यालिखिताश्च" इति । अनिः अश्याधारवेदिः। चितः ताभिरिष्टकाभिः कृतचयनः अभूत् ॥२६॥ चयनसंस्थानमाह-स इति । स चित्यः चयननिर्वत्योऽग्निः राजसिंहस्य राजश्रेष्ठस्य । अनेन पूर्वमनेकधानुष्ठितक्रतुत्वं सूच्यते । कुशलैः गतिभेदं विना चयननिर्माणसमथैः द्विजैः ब्राह्मणैः ऋत्विग्भिः सञ्चितः सम्यग्यथाशास्त्रं चितः । कथं चित इत्यत्राह-गरुड इति । गरुडः गरुडाकार पक्षो पुच्छंच प्रसार्याऽधो वीक्षमाणः प्राङ्मुखं तिष्ठन् गरुड इव स्थितः, "इयेनचितं चिन्वीत" इति श्रुतौ इयेनशब्दो गरुडपर एव, “सुपर्णोऽसि गरुत्मान्” इति मन्त्र
सचित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥२७॥
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य देवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ २८॥ लिङ्गात् । यद्वा गरुडः गरुडप्रतिकृतिः। “जीविकार्थे चापण्ये” इति वासुदेवादिवत्प्रतिकृतौ विहितस्य कनो लुप्। रुक्मपक्षः स्वर्णगर्भपक्षः। “सहस्रं हिर ण्यशकलैः प्रतिदिशमग्निं प्रोक्षति" इति सूत्रात् । त्रिगुणः त्रिगुणप्रस्तारः,प्रकृतौ पदप्रस्तारात्मकस्य चित्याग्नेरश्वमेधे त्रैगुण्यविधानात् । “पद चितयो भवन्ति" इति श्रुतेः । “ त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते” इति सूत्राच्च । अतएवाटादशात्मकः अष्टादशप्रस्तारात्मकः । ननु पदप्रस्तारा त्मकल्य चित्यस्य त्रैमुण्यविधानेनैव अष्टादशप्रस्तारात्मकत्वं सिद्धम्, किं पुनस्तदुपदेशेन ? उच्यते-त्रिगुण इत्युक्ते पञ्चदशात्मकत्वं प्रतीयते, तैत्तिरीयके “पञ्च चितयो भवन्ति" इति विधानात् । तदिदं वाजसनेयकपक्षावलम्बनं द्योतयितुमष्टादशात्मकत्वोक्तिः। एवम्भूतश्चित इत्यन्वयः॥२७॥ अथ पूर्वोक्तेषु यूपेषु पशुनियोजनमाह-नियुक्ता इति । यथाशास्त्रं शास्त्रमनतिक्रम्य। प्रचोदिता विहिताः। पशव उरगाः पक्षिणश्च। तत्तदैवतमिन्द्रादिदेवता । पाठे-शुल्बमेकसरा रजः । शुल्वानां यज्ञे विहरणसाधनत्वात् ॥ २६॥ स चित्य इति । चित्यः चयननिर्वयः स इष्टकाभिश्चितो देश इत्यर्थः । सश्चितः सम्यक चितः, संपूर्ण कृत इत्यर्थः। तमेवाह-गरुढ इति । गरुडः गरुडाकारेण इष्टकाभिश्चितो देशः। रुक्मपक्षः-रुक्मगर्भपक्षः। त्रिगुणः प्रकृती षट्प्रस्तारात्मकस्य चित्याग्नेरश्वमेधे वैगुण्यविधानात त्रिगुणः अतएवाष्टादशात्मकः । अष्टादशप्रस्तारात्मक इत्यर्थः ॥ २७ ॥ यथाशास्त्रम्-“इन्द्राय राजे सूकरो वरुणाय राज्ञे कृष्ट"
॥५॥
For Private And Personal Use Only