________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काञ्चनैः काञ्चनपट्टेवालंकृताः भवन् । “बहुलं छन्दस्यमाङ्योगेऽपि " इति अडभावः । अलङ्कारोऽपि किं शास्त्रीयः ? नेत्याह-तस्य यज्ञस्य शोभा दर्थमिति । यज्ञभूमेः शोभार्थमित्यर्थः ॥ २२ ॥ तेषां संख्याप्रमाणे दर्शयति- एकविंशतीति । ते यूपाः एकविंशति । " सुपां सुलुक्" इत्यादिना सुलोपः । एकविंशत्यस्त्त्रयश्च एकविंशत्यरत्न्युन्नता इत्यर्थः । “एकविंशत्यरत्निरश्वमेधस्य " इति श्रुतेः । “चतुर्विंशत्यङ्गुलयोऽरत्तिः” इति सूत्रम् । एकविंश। द्धिरितीकारलोपबहुवचने आर्षे । एकैकमिति सामान्ये नपुंसकम्। एको ग्रुप एकेन वाससति क्रमेण सर्वेऽपि वासोभिरलङ्कृता इत्यर्थः ॥ २३ ॥
एकविंशति ग्रूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ २३ ॥ विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव शुक्ष्णरूपसमन्विताः ॥ २४ ॥ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूंजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २५ ॥ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽभिर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २६ ॥ ग्रुपस्थापनविशेषमुक्तानुवादपूर्वमाह - विन्यस्ता इति । शिल्पिभिः सुकृताः सुष्ठु कृताः अन्यूनातिरिक्ततया कृता दृढाः सुषिरादिदोषरहिताः अष्टाश्रयः अष्टकोटयः । " स्त्रियः पाल्यश्रिकोटयः " इत्यमरः । श्रक्ष्णरूपसमन्विताः यूपाभ्यञ्जनेन त्रिग्धरूपयुक्ताः सर्व एव विन्यस्ताः स्थापिताः । यद्वा प्राप्ते न्यू पोच्छ्रयइत्यादिश्लोकत्रयमेकान्वयम् । शास्त्रज्ञेः कारिता बैल्वादयः सर्वे एते काञ्चनालंकृताः भवन्निति यूपनिर्माणमुक्तम् । एकविंशतीत्यनेन संख्या प्रमाणे दर्शिते। विन्यस्ता इत्यनेन स्थापनमुच्यते ॥ २४॥ यूपान् वर्णयति-याच्छादिता इति । दिवि सप्तर्षय इव ते यूपा विराजन्ते स्म, दीप्तिमात्रे दृष्टान्तः। सप्तानां सप्तानां वा ॥ २५ ॥ यूपोच्छ्रयपूर्व भावि चयनमाह-इष्टका इति । शुल्बकर्मणि यज्ञकर्मणि । “शुल्वं ताम्रे यज्ञकर्मण्याचारे जलशन्निधौ । ” इति धूप एकः सम्भूय एकविंशतियूपा अश्वमेध इति विवेकः । बाहुव्यस्तपरिग्रहौ व्यस्तवाहुपरिग्रहों प्रसारितोभयबाहुपरिणाहावित्यर्थः ॥ २०-२२ ॥ एकविंशति यूपा इति । एकविंशत्यरत्नयः- एकविंशत्यर त्निसंमितोच्छ्रयाः । अरबिर्नाम चतुर्विंशत्यलयः ॥ २३ ॥ विन्यस्ता इति । अष्टाश्रयः अष्टकोटियुक्ताः । श्लक्ष्णम् स्निग्धम् ॥ २४ ॥ २५ ॥ इष्टका इति । यज्ञकर्मणि चितोऽग्निरित्यत्र अग्निशब्देनाग्न्याधारभूतो देश उच्यते। सब्राह्मणैरिष्टकाभिः चितो बद्ध इत्यर्थः । शुल्वकर्मणीति
१] रूपसमन्विताः २ भूषिताः । २ शिल्पकर्मणि यज्ञकर्मणि । इत्यपि पाठः ॥
For Private And Personal Use Only