________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.का.
पा.रा.भ.
॥७३॥
वातवसनाः" इति निघण्टुः । यद्वा "चतुर्थमाश्रमं प्राप्ताः श्रमणा नाम ते स्मृताः।" इति स्मृतिः॥१०॥ वृद्धा इति । व्याधिताः सनातव्याधयः अनिशं भुनमानानां भुनानेष्वपि यजमानस्य तृप्तिः, अलंबुद्धिर्नासीदित्यर्थः। यद्वा रस्यतातिशयात् भुक्त्यनन्तरमपि,भोजनेच्छा जायत इत्यर्थः॥११॥ दीयता|७|| मिति। तथा चकः, ददुरित्यर्थः ।।१२।। अन्नेति । विधिवत् पाकविध्युक्तकमेण सिद्धस्य पक्कस्य । अत्रेति लुप्तषष्ठीविभक्तिकं पदम् । अन्नस्य खाद्यभक्ष्य लेह्यचोष्यभेदभिन्नस्य । कूटा राशयः ॥१३॥ नानेति । सुविहिताः सुतर्पिताः॥१४॥ अन्नमिति । अन्नं विधिवत् उपचारवत् स्वादु च अनेन तृप्ताः स्म। अहो इदं वर्णितुं न शक्यम् । इति द्विजर्षभाः प्रशंसन्ति प्राशंसन् । तद्रापवः शुश्राव । न तेष्वहःस्वित्यारभ्य प्रशंसाप्रकारः, न तु कविवाक्यम् । अनेन |
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च । अनिशंभुञ्जमानानां न तृप्तिरुपलभ्यते ॥ ११॥दीयतां दीयतामन्नं वासांसि विविधानि च । इति सञ्चोदितास्तत्र तथा चकरनेकशः ॥ १२॥ अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः। दिवसेदिवसे तत्र सिद्धस्य विधिवत्तदा ॥ १३॥ नानादेशादनुप्राप्ताः पुरुषाःस्त्रीगणास्तथा । अन्नपानैः सुविहिता स्तस्मिन् यज्ञे महात्मनः॥१४॥ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः। अहो तृप्ताः स्म भद्रं त इतिशुश्राव
राघवः ॥ १५॥ स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् । उपासते च तानन्ये सुमृष्टमणिकुण्डलाः॥ १६॥ "ब्राह्मणो वीणागायिनी गायतः" इत्यारभ्य "इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्” इत्युक्तस्तुतिश्रवणमुक्तम् ॥१५॥ स्वलंकृता इति । ब्राह्मणान् ब्राह्मणेभ्यः पर्यवेषयन्,भक्ष्यानपानादीनिति शेषः। सुमृष्टमणिकुण्डलाः उत्तेजितरत्नकुण्डलाः, अन्ये पुरुषाः साहाय्यार्थ तानसेवन्तेत्यर्थः॥१६॥ शतशिष्यरहितः॥९॥ ब्राह्मणा इति । नाथवन्त इत्यनेन ब्राह्मणशुश्रूषका: शद्रा उच्यन्ते । श्रमणा:-चतुर्थाश्रमं प्राप्ताः ॥ १०॥ अनिशमिति । न तृप्तिरुपलभ्यते। मोज्यपदार्थाना रसातिशयलाभातृप्ति भूदित्यर्थः। यद्वा अनिशं भुनानेष्वपि जनेषु यजमानस्य तृप्तिः अलम्बुद्धिर्नाभूदित्यर्थः ॥ ११ ॥ १२ ॥ अन्नकूटा इति । अत्र अन्नेति लुप्तषष्ठयन्तं मित्रं पदं सिद्धस्येत्यस्य विशेषणम् । सिद्धस्य निष्पन्नस्य ॥ १३ ॥ नानादेशादिति । सुविहिताः सुतरां तर्पिताः॥ १४ ॥ अन्नं हीति । अहो तृप्ताः स्म इति शब्दं राघवः शुश्राव । हि यस्मात्कारणात् स्वादु विधिवदत्तमन्नं द्विजर्षभाः प्रशंसन्तीति सम्बन्धः ॥ १५ ॥ स्वलंकृता इति । ब्राह्मणान | मुनिभाव-अनिशमिति । भोज्यपदार्थानां रस्यतातिशयान अनिशं भुञ्जमानानामपि तृप्ति!पलभ्यत इत्यर्थः । यहा दशरथस्य तृतिर्नास्ति, अत एव दीयतामन्नमित्युक्तम् ॥ ११ ॥
11
For Private And Personal Use Only