________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ब्रह्मत्वेन वृतत्वात् तद्वचनमप्यपेक्षितम् । शुभे दिवसे सोमसौम्यवारादो, शुभे नक्षत्रे रोहिण्यादौ, निर्यातः, गृहात् यज्ञशालां प्रति इत्यर्थसिद्धम् । अत्राहु:-- “ शङ्खदुन्दुभिमृदङ्गवादनैर्मङ्गलैः पटहकाहलादिभिः । स्वस्तिवादमुखरैर्मखक्षितिं ब्राह्मणैश्च सह सम्प्रपद्यते ॥” इति ॥ ३६ ॥ तत इति सार्द्धश्लोकः । आरभन्निति छान्दसः । यज्ञवाटगताः सर्वे यजमानत्विगादयः यथाविधि यथाक्रमं यथाशास्त्रं सर्वे यज्ञकर्मारभन् स्वस्वकर्मा रभन्तेत्यर्थः ॥ ३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥ पूर्वसर्गान्त शालाप्रवेशानन्तरम श्वमेधारम्भस्सङ्घङ्गेण दर्शितः । तदनुष्ठानं विस्तरेण दर्शयिष्यन् तस्याश्वागमनपूर्वकत्वात्तदनुवादपूर्वकं यज्ञानुष्ठानं दर्शयति चतुर्दशे - अथेत्यादि । अथ अश्वविमोचनानन्तरम् । तुरङ्गमे प्राप्ते क्रमेण प्राप्ते । तस्मिन्संवत्सरे पूर्णे राज्ञो यज्ञः अभ्यवर्तत प्रावर्तत । अश्वागमन ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभस्तद्ा । यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ॥ ३७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥ ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥
कमस्तु-विमुक्तमश्वं स्वैरं चरन्तं राजपुत्रराजोग्रसूतग्रामणिक्षत्रसङ्ग्रहितारश्चतुःशताः परिपालयन्तो नावर्तयन्तोऽनुचरन्ति । ब्रह्माध्वर्युहोनुद्गातार श्चत्वार ऋत्विजस्तं रथकारगृहे समानीय बध्वा तस्य चतुर्षु पदेषु " इह धृति स्वाहा ” इत्याद्याहुतिचतुष्टयं जुह्वति । तथाद्दुः- "रथकारगृहेऽश्वस्य वसतः सायमस्य तु । चतुर्षु पत्सु होतव्याश्वतस्त्रो धृतयः क्रमात् ॥” इति । अथैकादशमासादूर्ध्वं तं सदस्याः समानीय आश्वत्यै बजे बध्नन्ति । तथाह आपस्तम्बः " ऊर्द्धमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बभीयात् " इति । ततो द्वादशे मासे शालानिर्माणादिसकलसम्भारान् संभृत्य फाल्गुनामावा स्याया मृत्विग्भिः शालां प्रविश्य प्रतिपदमारभ्याश्वमेधं प्रारभन्ते ॥ १ ॥ ऋश्यशृङ्गमिति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं तस्येति गम्यते ॥ २ ॥ करणैः ॥ ३४ ॥ द्रष्टुमिति । मनसेव विनिर्मितमिति अविलम्बेन लोकोत्तरतया च निर्माणं सूचितं भवति ॥ ३५ ॥ तथा बसिष्ठवचनादिति लुप्तविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यशृङ्गस्य चोभयोरिति च सम्बन्धः । यज्ञवाटगता इत्यर्थं भिन्नं वाक्यम् । अत्राप्यारभन्नित्यनुषज्यते । यथाशास्त्रम् वेदोक्तमनतिक्रम्य । यथाविधि - कल्पसूत्रानुसारेण ॥३६॥३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ १३ ॥ अथेति । एतेन पूर्वोक्त
For Private And Personal Use Only