________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.रा.भू. स्वयमिति । महीक्षितः वसिष्ठेन विशिष्योक्तान् ॥ २८ ॥ ते चेति । उपलक्षणमेतत् । शिल्पकारादीनां यज्ञं यज्ञनिमित्तं यदुपकल्पितं निर्मितं ॐ तत्सर्वे निवेदयन्ति स्म । अवश्यं शिक्षणीयांशं पुनः शिक्षयति- ततः प्रीत इति । अर्धमेकान्वयम् || २९ || अवज्ञयेति । लीलया विनोदेन ॥ ३० ॥ तत इति । ततः दशरथनिर्गमनानन्तरम् रत्नानि श्रेष्टवस्तूनि मणिमुक्ताप्रवाल वस्त्राभरणचन्दनादीनि ॥ ३१ ॥ तत इति । स्पष्टम् ॥ ३२ ॥
॥७२॥
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २८ ॥ ते च कर्मान्तिकाः सर्वे वसिष्टाय च धीमते। सर्वे निवेदयन्ति स्म यज्ञे यदुपकल्पितम् । ततः प्रीतो द्विजश्रेष्टस्तान सर्वान पुनरब्रवीत् ॥ २९ ॥ अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा । अवज्ञया कृतं हन्यादातारं नात्र संशयः ॥ ३० ॥ ततः कैश्विहोरा रुपयाता महीक्षितः । बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ॥ ३१ ॥ ततो वसिष्ठः सुप्रीतो राजान मिदमब्रवीत् । उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ ३२ ॥ मया च सत्कृताः सर्वे यथाहै राजसत्तमाः । यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ॥ ३३ ॥ निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् । सर्वकामैरुपहतै रुपेतं वै समन्ततः ॥ ३४॥ द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३५ ॥ तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः । शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ ३६ ॥
मयेति । यज्ञमर्हति इति यज्ञियम् । " यज्ञविंग्भ्यां घखनौ ” इति घः । यज्ञाय यत्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ॥ ३३ ॥ निर्यात्विति । अन्ति कात्समीपे । “ दूरान्तिकार्थेभ्यो द्वितीया च " इति चकारेण पञ्चमी । समीपे उपहृतैः सर्वकामैः सर्वोपकरणैः उपेतम् ॥ ३४ ॥ द्रष्टुमित्यर्धमेका अन्वयम् । मनसेवेति क्षिप्रसिद्धत्वे दृष्टान्तः ॥ ३५ ॥ तथेति । वसिष्ठेत्यविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यशृङ्गस्य चोभयोरित्यर्थः । ऋश्यशृङ्गस्य * मुपदिशामीत्यर्थः ॥ २०-२६ ॥ वसिष्ठवाक्यमिति । शुभान् कुशलान् ।। २७-२९ ॥ अवज्ञयेनि । अवजया अनादरेण । लीलया अश्रद्धया ॥ ३० ॥ तत इति । आदाय उपायनार्थम् ॥ ३१ ॥ ३२ ॥ मयापीति । यज्ञियं यज्ञोपयोगि स्कवाद्यप करणजातमित्यर्थः ॥ ३३ ॥ अन्तिकम् अन्तिके स्थितम् । सर्वकामैः सर्वोप
For Private And Personal Use Only
टी.बा.क
स० १३
॥७२॥
ולו