________________
Shn Mahar Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
शनिमन्त्रयस्व आह्वय ॥ १८॥ ब्राह्मणानिति । सर्वदेशेषु स्थितानिति शेषः ॥१९॥ मिथिलेति श्लोकद्वयमेकं वाक्यम् । तं प्रसिद्ध स्वयमेव, न तु दूत मुखेन। पूर्वसम्बन्धिनं चिरन्तनसुहृदं ततः पूर्वोक्तेभ्यो नृपतिभ्यः॥२०॥२३॥ तथेति । स्वयमेव गमने हेतवो विशेषणानि।।२२॥ तथेति । केकयराजान मिति समासान्तविधेरनित्यत्वाहजभावः ॥ २३ ॥ अङ्गेति । समानय, त्वमेवेति शेषः ॥२४॥ प्राचीनानिति । प्राचीनान प्राग्देशवर्तिनः । सिन्धुदेशे निमन्त्रयस्व नृपतीन पृथिव्यां ये च धार्मिकाः ॥१८॥ ब्राह्मणान क्षत्रियान् वैश्यान शूद्रांश्चैव सहस्रशः । समान यस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १९॥ मिथिलाधिपति शूरं जनकं सत्यविक्रमम् । निष्टितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥२०॥ तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्व ब्रवीमि ते ॥२३॥ तथा काशीपति निग्धं सततं प्रियवादिनम् । वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ॥ २२ ॥ तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय॥२३॥ अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् । वयस्य राजसिंहस्य समानय यशस्विनम्॥२४॥प्राचीनान सिन्धुसौवीरान सौराष्ट्रेयांश्च पार्थिवान् । दाक्षिणात्यानरेन्द्रांश्च समस्तानानयस्व ह ॥ २५॥ सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले । तानानय यथाक्षिप्रं सानुगान सह बान्धवान् ॥२६॥ वसिष्टवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा । व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥२७॥ सौवीरदेशे च भवाः सिन्धुसौवीराः । सौराष्ट्रेयान सुराष्ट्र देशभवान् । दाक्षिणात्यान दक्षिणदेशभवान् । आनयस्त, दूतमुखेनेति शेपः ॥२५॥ सन्तीति । यथाक्षिप्रं शैष्यमनतिक्रम्य ॥ २६॥ वसिष्टेति । शुभान अन्तरङ्गान् ॥ २७॥ शास्त्रमुक्तं त्वया यदुक्तं तत् न किञ्चित परिहीयते न किञ्चिल्लुप्यते । यथा न किश्चित्परिहास्यते किञ्चिदपि यया परित्यक्तं न भवेत तथा नसुविहितं स्वनुष्ठितं. करिष्याम इत्यर्थः ॥ १६-१९ ॥ मिथिलाधिपमिति । स्वयमेवानयेति सम्बन्धः। पूर्वसम्बन्धिनं चिरन्तनसम्बन्धि ज्ञात्वा ततः पूर्व तत्पूर्वकं ब्रवीमि राजाहान विषम-मानवान् चतुर्वर्गातिरिक्तान् सङ्करजातीयान् ॥ १९॥
१ सइ देवमाशम् । २ तमिहानव । ३ महे-यास । ४ समीपगम् । इदि व पाठान्तरम् ॥
-
For Private And Personal Use Only