________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्निग्धः अविच्छिन्नसेहः सुहृत्, परमः वामदेवादिभ्य उत्कृष्टः, महान् वस्तुतो निरूपमः, गुरुः अतः उद्यतः उपकान्तः यज्ञस्य भारो भवतैव वोढव्यः चकारणात्विज्यं च कर्तव्यमित्युच्यते ॥४॥ तथेति । समर्थितं सम्यक् प्रार्थितम् ॥५॥ तत इति साईश्लोकत्रयमेकान्वयम् । यज्ञकर्मसु यज्ञप्रयो गेषु । स्थापत्ये तद्रव्यानयनस्वाम्ये । निष्टितान पूर्व राज्ञा नियुक्तान् ॥६॥ कान्तिकानिति । कर्मणामन्तः समाप्तिः स एपामस्तीति कर्मा न्तिकाः।"अत इनिठनो" इति ठन् । भृतकानित्यर्थः । शिल्पकरान् इष्टकादिनिर्मातृन् । वर्द्ध कीन् तक्ष्णः । मुकवचमसग्रहयूपादिनिर्मातन् । खन कान वापीकूपादिकृतः, गणकान् लेखकान्, शिल्पिनः चित्रादिकरान्, नटाः रसाभिनयकृतः, नर्तकाः भावाभिनयकृतः, शास्त्रविदः प्रयोगशास्त्र
तथेति च स राजानमब्रवीदद्रिजसत्तमः। करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥५॥ ततोऽब्रवीददिजान वृद्धान यज्ञकर्मसु निष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥६॥ कान्तिकान शिल्पकरान वर्द्धकीन खनकानपि । गणकान शिल्पिनश्चैव तथैव नटनर्तकान् । तथा शुचीन शास्त्रविदः पुरुषान् सुबहुश्रुतान् ॥७॥ यज्ञकम समीहन्तां भवन्तो राजशासनात् । इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति ॥८॥औपकार्याः क्रियन्तां
च राज्ञां बहुगुणान्विताः । ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥९॥ विदः॥७॥ अथाज्ञापनप्रकारमाह अष्टभिः-यज्ञकर्मत्यादि। ऋत्विजः प्रत्याह यज्ञकमेति । समीहन्तां व्याप्रियन्ताम् । शिल्पकरान् प्रत्याह इष्टकेति । जात्येकवचनम् । इत्यब्रवीदिति पूर्वेणान्वयः ॥८॥ औपकार्या इति, सप्तश्लोक एकान्वयः । औपकार्या राजसदनानि । “स्वाथै प्यद्” इत्यबीदिति द्विजोत्तममिति पूर्वस्यानुषङ्गः ॥ ४॥ तथेति । समर्थितम्-प्रार्थितम् ॥ ५॥ ततोऽब्रवीदित्यादि । यजकर्मसु यज्ञप्रयोगेषु, स्थापत्ये तत्तव्यानयन स्वाम्ये, निष्ठितान नियुक्तान् । कान्तिकान कर्मान्तः कर्मस्वरूपं तनिश्चयो वा तन्ना, कर्मकरानिति यावत । शिल्पकरान चित्रकरान । वर्द्धकीन त्वपून खनकान वापीकपनिर्मातून । गणकान लेखकान् । शिल्पिनः बितानाद्यलङ्कारकान, नटनर्तकान-नटान् नाटयितॄन, नर्तकान् नृत्यकारिणः ॥६॥ ७॥ यज्ञकर्म समीहन्ताम, निर्वर्तयितुमिति शेषः । इष्टकेति । आनीयतामित्यत्रेतिशब्दः अब्रवीदिति पूर्वेण सम्बध्यते । यदा परेण सम्बध्यते यथेष्टकानयनमेवापयिकाश्च क्रियन्तामिति बहुसाहस्राः बहुसहस्रसङ्कयाकाः आनीयतामिति व्यत्ययेनैकवचनम् ॥ ८॥ औपकार्या इत्यादि । औपकार्याः राजसदनानि । बहुगुणान्विताः बहूपकरणयुक्ताः
विषम-स्थापत्यं स्थपतेः रथकारस्य कर्म । तत्र निष्टितान् प्रवीणान् ॥ ६ ॥
For Private And Personal Use Only