________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ. ॥६९॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
| द्वितीयेऽह्नि ब्रह्मोदन मेध्याश्वबन्धनस्त्रापनप्रोक्षणविमोचनादिकम् " चत्वार ऋत्विजः समुक्षन्ति " इत्युक्तरीत्या कृत्वा "सावित्रमष्टाकपालं प्रातर्निर्वपति” इत्युक्तरीत्या प्रतिदिनं सावित्रादिषु कर्मस्वनुष्ठीयमानेषु संवत्सरे पूर्णे देवयजनंप्रति प्रस्थानं दर्शयति त्रयोदशं पुनः प्राप्त इत्यादि । पुनर्वसन्ते द्वितीय वसन्ते प्राप्ते संवत्सरः पूर्णोऽभवत्, अमावास्या प्राप्तेत्यर्थः । तत्र भाविन्यां पौर्णमास्यां प्रसवार्थ हयमेधेन यष्टुं हयमेधाख्यं यज्ञं कर्तुम् गतः, देवयजन मितिशेषः । प्रथम संवत्सरान्तिमामावास्यायां उखासंभरणधातवीयदीक्षणीयादिकं देवयजन एव हि कर्त्तव्यम् । यथोक्तं भास्करैः- “संवत्सरस्यास्य तु याऽन्तिमामावास्या विधेयामिह दीक्षणीयाम् । त्रैधातवीयां प्रवदन्ति सप्त दिनानि दीक्षाहुतयस्तथाष्टौ ||" इति ॥ १ ॥ एवमेतत्सर्गप्रतिपाद्यं देवयजनगमनं
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थ द्विजोत्तमम् ।
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव ॥ २ ॥ यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥ भवान स्त्रिग्धः सुहन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥ सङ्ग्रङ्गेणोक्तत्वा पुनस्तद्विस्तरेण वमुपक्रमते सर्गशेषेण । तत्र ब्रह्मौदनमारभ्य यावदश्वमेधसमाप्ति यजमानस्य स्वातन्त्र्यप्रतिषेधेन स्वयं यज्ञोपकरणसंपाद नाद्ययोगादध्वर्युणैव तस्य सर्वस्य कर्तव्यत्वादध्वर्युत्वेन वृतं वसिष्ठं प्रति प्रार्थयते-अभिवाद्येत्यादिना । तदुक्तं भट्टभास्करैः - " रशना अनतः पश्चादध्वर्युः परिवीयते । राज्याय स च राजा स्याद्यावत् सन्तिष्ठते क्रतुः ॥” इति । येयं “ द्वादशारत्नी रशना भवति पोखी भवति ” इत्यश्वबन्धनरज्जुर्विहिता. तस्याः “यदाज्यमुच्छिष्यते तस्मिन् रशनान्युनत्ति " इति यद्ब्रह्मोदनशिष्ट ज्येनाभ्यञ्जनम् विहितं ततः पश्चादित्यर्थः । अर्द्धत्रयमेकान्वयम् । वसिष्ठं अभिवाद्य च न्यायतः शास्त्रतः प्रतिपूज्य च । प्रश्रितं विनययुक्तं वाक्यमत्रवीत् । कथम्? प्रसवार्थ पुत्रार्थम् । आरपी मे यज्ञः यथोक्तं शास्त्रोक्तमनतिक्रम्य क्रियताम् ॥२॥ यथेति । यज्ञाङ्गेषु द्रव्यदेवता कर्मादिरूपेषु यथा विघ्नो न क्रियते, राक्षसैरिति शेषः । तथा क्रियतामित्यर्थः ॥ ३॥ भवानिति । भवान् मह्यं
शृङ्गादिऋत्विजो वृताः तत आरभ्य सम्भारसम्भरणयज्ञभूमिविधान शान्तिकर्मानुष्ठानपूर्वकमचं विमुच्य तेन सहैव गच्छद्भिरुद्रात्रध्वर्युहोतृब्रह्मभिः राजपुत्र संगृहीतसूतग्रामण्युप्राख्यैः प्रत्येकशतसङ्ख्याकैरनुगम्यमानैस्मावित्रादिकर्मसु अनुष्ठीयमानेष्वेव संवत्सरे पूर्णे पुनर्वसन्ते प्राप्त इत्यर्थः । हयमेधेन अश्वमेधेन, प्रस वार्य प्रसवफलं भावयितुं । गतः गन्तुमुपक्रान्त इत्यर्थः ॥ १ ॥ अभिवाद्येत्यर्धत्रयमेकं वाक्यम् । वसिष्ठमभिवाद्य न्यायतः प्रतिपूज्य च प्रसवार्थमारब्धो यज्ञो यथोक्तं क्रियतामिति प्रश्रितं विनययुक्तं वाक्यमब्रवीदिति सम्बन्धः ॥ २ ॥ यथेति । यज्ञाङ्गेषु द्रव्यदेवताकर्मादिरूपेषु यथा विघ्नो न क्रियते राक्षसादिभिरिति शेषः । तथा विधीयतां क्रियतामित्यर्थः ॥ ३ ॥ भवानिति । स्निग्धः अविच्छेदस्नेहः । सुहत शोभनहृदयः । मह्यमिति षष्ठयर्थे चतुर्थी । मया उद्यतो भारः भवता वोडव्य
For Private And Personal Use Only
टी.वा.को
स० १३
॥६५॥