________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsuri Gyanmandir
शरक्षन्ति " इति यूयमाणे राजपुत्राद्यैः अधिष्ठितः रक्षितः। सोपाध्यायः उपाध्यायैश्चतुर्भिः ऋत्विग्भिः सहितः । अश्वो विमुच्यताम् चत्वार ऋत्विजी
समुक्षन्तीत्यारभ्य शतेन राजपुत्रैः सह अध्वर्युः शतेनाराजभिरुग्रेः सहब्रह्मा शतेन सूतग्रामणीभिः सह होता शतेन क्षत्रसङ्कहीतृभिः सहोद्गाता" इति श्रुतेः संगृहीतं च भट्टभास्करैः-"सन्नाइवन्तः क्षितिपालपुत्राः सन्नद्धसूताः शतमस्य तल्प्याः । गोपायितारः शतमेवमुग्राः सन्नाहिनस्तादृशमृनुयुक्ताः । वैश्याः। शतप्रान्तचराः पथि स्युर्वरूथिनस्तैः शतमेव शूद्राः॥"इति॥१४॥अथ "पुण्यनामदेवयजनमध्यवस्यति" इत्युक्तरीत्या यागाईपुण्यस्थलपरिग्रहं दर्शयति-1
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्द्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥ शक्यः कर्तुमयं यज्ञःसर्वेणापि महीक्षिता । नापराधो भवेत्कष्टो यद्यस्मिन् ऋतुसत्तमे ॥ १६ ॥ छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः। विनितस्य हियज्ञस्य सद्यः कर्ता विनश्यति ॥ ७ ॥ तद्यथा विधिपूर्व मे ऋतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह॥ १८॥ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥१९॥ ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्॥२०॥ गतेप्वथ द्विजायेषु मन्त्रिणस्तानराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥२१॥
- इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥ १२॥ पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थ गतो यष्टुं हयमेन वीर्यवान् ॥१॥ सरवा इति । उत्तरं विविक्तमिति तत्परिग्रहः । शान्तयः शान्तिकर्माणि । अभिवईन्तां प्रवर्तन्ताम्, यथाकल्पं यथाक्रम, यथाविधि यथाशास्त्रम् ॥१५॥ शक्य इति । कष्टः केशकरः॥१६॥ छिद्रामिति । छिद्रम् अपराधमित्यर्थः॥ १७॥ तदिति । यथेति छेदः॥१८॥ तथेति । अकुर्वत साङ्कहणेष्टिप्रभृत्य-भविमो चनान्तमकुर्वन्नित्यर्थः ॥१९॥ ततो द्विजा इति । अनुज्ञाताः, तेनेति शेषः ॥२०॥ गतेष्विति । स्वं वेश्म, अग्निगृहादन्तःपुरमित्यर्थः ॥२१॥ इति श्रीगो विन्दराजविरचिते श्रीरामायणभूषणे मणिमंञीराख्याने बालकाण्डव्याख्याने द्वादशः सर्गः ॥१२॥ एवं प्रथमवसन्ते चैत्रपौर्णमास्यां साङ्ग्रहणेष्टिं विधाय भावेन ॥९-१४ ॥ यथाकल्पं यथाक्रमम् । यथाविधि यथाशास्त्रम् ॥ १५-२० ॥ गतेष्विति । नराधिपः दशरथः । स्वं स्वकीयम् वेदम, अग्निग्रहादन्तःपुरं प्रविवेश प्रवेशयामास ॥२१ ॥ इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥ पुनः प्राप्त इति । यस्मिन् वसन्ते
For Private And Personal Use Only