________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा-रा.भू.
॥६॥
मिति ॥५॥तत इति त्वरितविक्रमः त्वरितपदन्यासः ॥ ६॥ वानिति । धर्मार्थसहितं धर्मार्थरूपप्रयोजनयुक्तम्, शुक्ष्णं मधुरम् ॥ ७॥ ममेति टी.वा.का. व्याख्यातम् ॥८॥ तदिति। यष्टुमिच्छामि प्रतिबन्धकदुरितशान्त्यर्थम् । ऋषिपुत्रश्भावेन ऋष्यशृङ्गकृतयज्ञप्रभावेन, पश्चात्कामान, पुत्रान् प्राप्स्यामि च ॥९॥ तत इति । ऋश्यशृङ्गश्लाघागर्भवादसिष्ठप्रमुखा इत्युक्तम् ॥ १०॥ ऋश्यशृङ्गेत्यादि व्याख्यातप्रायम् ॥ ११॥ सर्वथेति । सनत्कुमार वचःश्रवणाच्चतुर इत्युक्तम् ॥ १२ ॥ तत इति । क्रियाभेदान्न राजपदपुनरुक्तिः ॥ १३ ॥ गुरूणामिति । संघियन्तु संभियन्ताम्, आप परस्मै
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत्स तान सर्वान समान वेदपारगान ॥ ६॥ तान पूजयित्वा धर्मात्मा राजा दशरथस्तदा । धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ ७॥ मम लालप्यमानस्य पुत्रार्थ नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥८॥ तदहं यष्टुमिच्छामि शानदृष्टेन कर्मणा । ऋषिपुत्रप्रभावेन कामान प्राप्स्यामि चाप्यहम् ॥९॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्युतम् ॥१०॥ ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपति तदा।सम्भाराः सम्भ्रियन्तांतेतुरगश्च विमुच्यताम ॥१॥ सर्वथा प्राप्फ्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२॥ ततः प्रीतोऽभव द्राजा श्रुत्वा तु द्विजभाषितम् । अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ ३॥ गुरूणां वचनाच्छीघ्र सम्भाराः
सम्भ्रियन्तु मे । समाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ ११ ॥ पदम् । अत्र सम्भाराः यज्ञीयाश्वमोचनोपकरणानि “ द्वादशारत्नी रशना भवति" इत्युक्त्या द्वादशारनिपरिमिता मुआख्यतृणविशेषनिर्मिता रशना " चतुष्टय्य आपो भवन्ति" इत्यनुवाकोक्ताः आतपतिवाः कृप्याः स्थावरा वहन्त्यश्च इति चतुर्विधा आप इत्यादीनि । समर्थः ॥ चतुःशताnam विप्रमुश्यशृङ्गम् ॥२॥३॥ तत इति । आवाहय मत्समीपं प्रापय । ऋती यजन्तीत्र्य॒त्विजः ॥४-७॥ मभ लालप्यमानस्येत्यादि राजा पूर्वमप्युक्तम, न तु कृतम । सङ्कल्पमात्रेण अन्तरा सुमन्त्रकथा प्रस्तुता. अतो नानुष्ठितम् । इदानीमनुष्ठानाय तत्पुनरप्युपन्यस्यने ॥८॥ तदिति । ऋषिपुत्रप्रभावन-ऋषिपुत्रः श्यङ्गः, तत्प्र
For Private And Personal Use Only