SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir तरति ब्रह्महत्यां योऽश्वमेधेन यजते" इति श्रुत्या "राजसार्वभौमोऽश्वमेधेन यजेत" इति स्मृत्या च विहितमश्वमेध यष्टुं सङ्कल्प्य तदानीमुद्धसंस्कारेण सुमन्त्रेणोदीरितवचनाजामात्रुपलालनव्याजेन शान्तया सह ऋश्यशृङ्गन्मानीय प्राप्तकाले पूर्व सङ्कल्पितमश्वमेधं कर्तुमारभतंत्याह-ततः काल इत्यादि। ततःऋश्यशृङ्गानयनानन्तरं, बहुतिथे अनल्प काले गते । सङ्ख्यासंज्ञादहुशब्दात् पूरणार्थे डटि "बहुपूगगणसङ्घस्य तिथुक" इति तिथुगागमः । कस्मि |श्चित् मलिम्लुचत्वादिदोपरहिततया विलक्षणे, सुमनोहरे पौर्णमास्याः कालत्वेनातिमनोज्ञे, वसन्ते समनुप्राप्त प्रारब्ध. चैत्र्यां पौर्णमास्यामित्यर्थः।राज्ञा दशरथस्य यष्टुं साङ्ग्रहणीमिष्टिं कर्तुमनः मनोरथः अभूत्। “चैत्र्यां पोर्णमास्यां प्रातरश्वमेधेन यक्ष्ये इति सङ्कल्प्य साङ्ग्रहण्येष्टया यजते” इति स्मरणात्॥१ अथ साङ्ग्रहणीमिष्टिं कर्तुमृविवरण प्राप्ते प्रथममृत्यशृङ्गं ब्रह्मत्वेन वृतवानित्याह-ततःप्रसाद्येति। देववणिनं देववर्चसम् ॥२॥तथेति । स च ऋश्यशृङ्ग ततःप्रसाद्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास सन्तानार्थ कुलस्य वै ॥२॥ तथेति च स राजानमुवाच च सुसत्कृतः । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥३॥ ततो राजाब्रवीद्वाक्यं सुमन्त्र मन्त्रिसत्तमम् । सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः॥४॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्टं च ये चाप्यन्ये द्विजातयः ॥५॥ च॥३॥ अथ "अपदातीनृविजः समावहन्त्यासुब्रह्मण्यायाः" इति विहितमध्वर्युप्रभृतिवरणमाह-ततो राजेत्यादिना । अस्याः श्रुतेरयमर्थः-तस्यतस्य] गृहे गत्वा सोमप्रवाकवृतानध्वर्युब्रह्महोतनाग्रीधं च हस्त्यश्वादिकमारोप्य राजगृहमानयन्ति राजपुरुषाः अनन्तरायाममावास्यायां पूर्ववृता एव ते संज्ञाने ट्यर्थ पुनर्वियन्ते । अथ वेशाख्यां पौर्णमास्यां प्राजापत्यर्षभपश्वर्थ पूर्ववत् सोमप्रवाकवृतो मेत्रावरुणप्रतिप्रस्थातारो हस्त्यादिकमारोप्यानयन्ति राजपु रुषाः। अनन्तरायाममावास्यायां तथैव वृतमदातारं हस्त्यादिभिरानयन्ति । अथागामिनि वसन्ते पञ्चदश्यां हस्त्यादिभिःप्रस्तोतारमानयन्ति । त्रैधात वीयाथै यत्र दीक्षारम्भस्तदिवसादूर्व तृतीयादिष्वहस्वन्वहमितरानष्टावृत्विजो हस्त्यादिकमारोप्यानयन्ति ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहार ग्रावस्तुतं पोतारं उन्नेतारं सुब्रह्मण्यमिति सोमार्थम् । एवमासुब्रह्मण्याह्वानादपदातीनृत्विज आवहन्तीति । एवं क्रमेण कर्त्तव्यानि ऋत्विग्वरणानि कार्यकर वात्सङ्ग्रहेण दर्शयति सुमन्त्रावाहयेति । आवाहय आनय । ऋतौ यजन्तीति ऋत्विजः । ब्रह्मवादिनः वेदपाठकान् ॥ ४॥ऋत्विजः परिगणयति-सुयज्ञ इति शेषः । सुमनोहरे मलिम्लुनत्वादिदोषरहिते । मनोऽभवत मनोगतं प्रवृत्तम् ॥ १॥ ततः प्रसाद्येति । देववर्णिनम् देववर्चसम् । सन्तानार्थम् अविच्छेदार्थम् । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy