SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.बा.का म० १२ . ... वा.रा.भू. मिति । सिक्तं च संमृष्टं च सिक्तसंमृष्टम् । “पूर्वकाल-" इत्यादिना समासः। स्वलंकृतं पुष्पकदलीकाण्डादिभिः ॥ २४ ॥ तत इति । आग ॥६॥ तम् आगतप्रायं, राज्ञा यद्यथा प्रेषितं तत्तथा तदा श्रवणकाल एव चक्रुः ॥२५॥ तत इति । द्विजर्षभं पुरस्कृत्य शङ्खदुन्दुभिनिर्घोषः सह प्रविवेश ॥ २६ ॥ तत इति । नागराः नगरवासिनः । नरेन्द्रेण दशरथेन । सत्कृत्य नगरालङ्कारादिभिः संमान्य प्रवेश्यमानं तं द्विजं दृष्ट्वा प्रमुदिताः सन्तुष्टाः। ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् । तथा प्रचक्रुस्तत्सर्व राज्ञा यत्प्रेषितं तदा ॥ २५॥ ततः स्वलंकृतं राजा नगरं प्रविवेश ह । शङ्खदुन्दुभिर्निर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६॥ ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् । प्रवेश्यमानं सत्कृत्य नरेन्द्रणेन्द्रकर्मणा ॥२७॥ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः। कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥२८॥ अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्ट्वा तथागताम् । सह भर्ना विशालाक्षी प्रीत्यानन्दमुपागमन् ॥२९॥ पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कश्चित्कालं सहत्विजा ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥ ११॥ ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे। वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १॥ आसन् । इन्द्रस्येव कर्म पराक्रमादिकं यस्य सः इन्द्रकर्मा तेन ॥ २७ ॥ अन्तःपुरमिति । उपवाहनात् आनयनात् ॥ २८ ॥ अन्तरिति । भर्ना सहा गताम् अनेन पूर्व कन्यात्वदशायामपि कदाचिदागमनं व्यज्यते ॥२९॥ पूज्यमानेति । विशेषतः जनकत्वसम्बन्धात् ऋत्विजा ऋश्यशृङ्गेण पितृगृह त्वात् शान्तायाः प्राधान्यम् ॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने एकादशः सर्गः ॥११॥ एवं दशरथः सर्वकामसमृद्धोऽपि पुत्रालाभसन्तप्तस्तन्मूलानि पापानि स्वाधिकारानुरूपेणाश्वमेधेन विना न विनश्यन्तीति मन्वानः “सर्व पाप्पानं तरति शृङ्ग इति शेषः ॥ १७ ॥ १८ ॥ शान्तेति । उद्यतम् उपक्रान्तमस्ति ॥ १९ ॥२०॥ ऋषिपुत्र इति । प्रतिश्रुत्य आकर्ण्य ॥ २१-२६ ॥ तत इति । इन्द्रकर्मणा इन्द्र Naeशकर्मणा ॥ २७ ॥ अन्तःपुरमिति । उपवाहनात आनयनात ॥ २८ ॥ अन्तःपुरस्त्रिय इति । तथागतो तादृशवैभवयुक्ताम् ॥ २९ ॥ ३०॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डम्याख्यायामेकादशः सर्गः॥११॥ तत इति । ततः कश्यशृङ्गानयनानन्तरम् । काले बहुतिथे अनल्पे, गत - - ॥६ ॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy