SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पुनर्वसिष्ठसन्निधौ सा कथा प्रस्ताविता सुमन्त्रमुखेनेवोति गम्यते । अतो वसिष्ठेनानुमतिः कृतेति मन्तव्यम् । सान्तःपुरतया गमनं जामात्रुपलालनरीत्या शान्तया सहानयनार्थम् । यत्र रोमपादनगरे॥ १३॥ वनानीति । वनादिविलोकनकुतुक्रित्वं शनैःशनैरित्यनेन द्योत्यते ॥ १४॥ आसाद्योति । तं देश मासाद्य, तं ऋषिपुत्रम् । आदौ रोमपाददर्शनात् पूर्व ददर्श, तस्मिन् भक्त्यतिशयद्योतनार्थम् ॥१५॥ तत इति।राजा रोमपादः, राज्ञो दशरथस्य ॥१६॥ वनानि सरितश्चैव व्यतिक्रम्य शनैःशनैः। अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥ आसाद्य तं द्विजश्रेष्टं रोमपादसमीपगम् । ऋषिपुत्रं ददादौ दीप्यमानमिवानलम् ॥१५॥ ततो राजा यथान्यायं पूजां चक्रे विशेषतः । सखित्वात्तस्य वैराज्ञः प्रहृष्टेनान्तरात्मना ॥१६॥रोमपादेन चाख्यातमृषिपुत्राय धीमते । सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥ एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः । सप्ताष्टदिवसान् राजा राजानमिद मब्रवीत्॥१८॥ शान्ता तव सुता राजन सह भर्चा विशांपते। मदीयं नगरं यातु कार्य हि महदुद्यतम् ॥१९॥ तथेति राजा संश्रुत्य गमनं तस्य धीमतः। उवाच वचनं विप्रं गच्छ त्वं सह भार्यया॥२०॥ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा। स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया॥२॥तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसाननन्दत दशरथो रोमपादश्च वीर्यवान् ॥ २२॥ ततः सुहृदमाटच्छच प्रस्थितो रघुनन्दनः । पारेभ्यः प्रेषयामास दूतान वै शीघ्रगामिनः ॥ २३ ॥ क्रियतां नगरं सर्व क्षिप्रमेव स्वलंकृतम् । धूपितं सिक्तसंमृष्टं पताकाभिरलंकृतम् ॥२४॥ रोमपादेनेति । सम्बन्धकं शान्ताया जनकपितृत्वरूपं सम्बन्धम् । प्रत्यपूजयत्, ऋश्यशृङ्ग इति शेषः ॥१७॥ एवमिति ।तेन रोमपादेन सप्ताष्टेति लोक वचनपरिपाटी संख्यानियमोपेक्षा कृता ॥१८॥ शान्तेति । उद्यतम् उद्युक्तम् ॥ १९॥ तथेति । तस्य ऋश्यशृङ्गस्य गमनं संश्रुत्य प्रतिज्ञाय ॥२०॥ ऋषीति । प्रतिश्रुत्य आकर्ण्य । नृपं रोमपादम् ॥२१॥ ताविति । अन्योन्यमनलिमित्यर्थः ॥२२ ।। तत इति । सुहृदं रोमपादम् ॥२३॥ क्रियता, मान्येति । अनुमान्य अनुज्ञां प्राप्य ॥ १३-१५ ॥ तत इति । राजा रोमपादः । राज्ञः दशरथस्य ॥ १६ ॥ रोमपादेनेति । तं दशरथम् । प्रत्यपूजयत् । श्य For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy