________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भू. ॐ शान्ताभतां ऋतुमाहरेत अनुति इतेि वक्ष्यतीति शेषः ॥ ५ ॥ श्रुत्वेति । स रोमपादः मनसा विचिन्त्य, न तु मन्त्रिभिः । पुत्रवन्तं पुत्रप्रदानसमर्थ ॥६६॥ पुत्रयुक्तं वा ॥ ६ ॥ प्रतिगृह्येति । हरिष्यति करिष्यतीत्यर्थः । अन्तरात्मना मनसा उपलक्षितः ॥ ७ ॥ तस्मिन् यज्ञे तमेव ऋत्विजं करिष्यतीत्याहतं चेति श्लोकद्वयमेकवाक्यम् । यष्टुं कामा यस्य स यष्टुकामः । “लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि ” इति मकारलोपः । एवम्भूतो राजा तं वरयि ष्यति । वशे वरणम् । “तत्करोति" इति णिच् । अल्लोपस्य स्थानिवत्त्वादृद्धय भावः ॥ ८॥ किमर्थम् ? यज्ञार्थं पुत्रकामेष्ट्यर्थम्, तद्द्द्वारा प्रसवार्थं पुत्रार्थम्, श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः । ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥ यज्ञार्थं प्रसवार्थे च स्वर्गार्थं च जनेश्वरः । लभते च स तं कामं विप्रमुख्याद्विशांपतिः ॥ ९ ॥ पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥ एवं स देवप्रवरः पूर्व कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११॥ स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् । स्वयमेव च राजेन्द्र गत्वा सबलवाहनः ॥ १२ ॥ अनुमान्य वसिष्टं च सूत वाक्यं निशम्य च । [ वसिष्ठेनाभ्यनुज्ञातो राजा संपूर्णमानसः ।] सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥ तद्वारा स्वर्गार्थम् । "नापुत्रस्य लोकोऽस्ति” इति श्रुतेः । कामं काम्यकतुम् ॥ ९ ॥ पुत्राश्वेति । अमितविक्रमाः अपरिच्छिन्नपराक्रमाः ॥ १० ॥ एव मिति । पूर्व पूर्वकाले । विभक्तिप्रतिरूपकमव्ययम् । पुरा पुराणः । देवयुगे कृतयुगे । यद्वा हे देव ! पुरा युगे, कृतयुग इत्यर्थः ॥ ११ ॥ स इति । स त्वं पुत्रार्थी त्वम् सुसत्कृतं सुसत्कारार्हम्। स्वयमेव, न तु पुरोहितादिद्वारा ॥ १२ ॥ अनुमान्येति । अनुमान्य कृतानुमतिकं कृत्वा, अन्यथा मयि स्थिते कथ मयमन्यमाह्वयतीति वसिष्ठः कुप्येत्, अतः सुमन्त्रोक्तकथोक्तिपूर्वकमनुमान्येत्यर्थः । अनुमान्य वसिष्ठं च सुतवाक्यं निशम्य च इति वचनभङ्गया आहरेत् निर्वहेत् । सन्तानार्थं वंशाविच्छेदार्थम् ॥ ५ ॥ श्रुत्वेति । पुत्रवन्तं पुत्रफलकर्मवन्तं सञ्जातपुत्रं वा । यद्वा तपोमाहात्म्यात्पुत्रकामेष्टया पुत्रप्रदानसमर्थ त्वात्पुत्रवन्तमित्युक्तिः ॥ ६॥ ॥ तं चेति श्लोक के वाक्यम् । प्रसवार्थे सन्तानार्थम् । कामम् काम्यक्रतुम् ॥ ८-१० ॥ एवमिति । देवयुगे कृतयुगे ॥ ११॥ १२ ॥ अनु
For Private And Personal Use Only
टी.बा. कां
स० [११
॥६६॥