________________
She Maha
Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kalassagarsun Gyanmandir
दधुः॥१८॥ अस्माकमिति । प्रतिगृहाणेत्यन्वयः । “छन्दसि परेऽपि" इति प्रतीत्यस्योपसर्गस्य धातोरपरिष्टात्प्रयोगः। छन्दोवत्पुराणानि भवन्ति” इति न्यायात् । माचिरं विलम्ब मा कुरु ॥ १९॥ तत इति । अत्रादौ इत्युक्त्वेत्युपस्कार्यम्, स्नेहिजनवत् सीकारार्थमालिङ्गच ॥२०॥तानीति । वने नित्य निवासिनाम् अनास्वादितपूर्वाणि तैः पूर्वमनास्वादितानि फलानीमानीति मन्यते स्म । अपूर्वरसत्वात् "नाग-" इति समासप्रतिषेधादेव ज्ञापकात तृतीयार्थे षष्ठी॥२१॥ आपृच्छयेति । व्रतचर्यो निवेद्य अस्माभिः किञ्चिद्वतमनुष्टेयमस्तीति व्रतानुष्टानं निबद्य, तस्मादपदेशाद्व्याजात्। तस्य पितुर्भीताः
अस्माकमपि मुख्यानि फलानीमानि वै द्विज । गृहाण प्रतिभद्रं ते भक्षयस्व च माचिरम् ॥ १९॥ ततस्तास्तं समालिङ्गय सर्वा हर्षसमन्विताः। मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान्॥२०॥ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते। अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्॥२१॥आपृच्छय तु तदा विप्रं व्रतचर्या निवेद्य च । गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥२२॥ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः । अस्वस्थहृदयश्चासीदुःखं स्म परिवर्तते ॥ २३॥ ततोऽपरेधुस्तं देशमाजगाम स वीर्यवान् । मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः॥२४॥ दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः । उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ।
॥ २५ ॥ एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् । तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ २६ ॥ सत्यो गच्छन्ति स्म ॥ २२ ॥ गतास्विति । काश्यपस्य कश्यपपुत्रस्य विभण्डकस्य, अस्वस्थहृदयः कर्षितचित्तः दुःखं यथा भवति तथा परिवत्तते स्म सञ्चरति स्म ॥२३॥ तत इति । ततः अस्वस्थचित्तत्वादेतोः॥२३॥ दृष्ट्वेति स्पष्टम् ॥२५॥ एहीति। अम्माकमाश्रमपदमेहीति पूर्वेणान्वयः । रोति । ऋषेर्भीताः विभण्डकागीताः॥ १८॥ अस्माकपिति । गृहाण प्रतिगृहाण । मानिरमित्यूचुः । अविलम्बन ऋषेरागमनात्पूर्वमेव भक्षणीयमित्यभि प्रायः॥ १९-२१॥ आपृच्छति । प्रतचर्या नियमाचरणम् । अपदेशात-व्रतच व्याजात ॥ २२ ॥ गतास्विति । दुःखात तासां विश्लेषजात् ॥२३-२५ ॥ पहीति ।
१ दुःखात इति तीर्थीयपाठः ।
For Private And Personal Use Only