________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
दीर्घः । तेन पुराणेतिहासादिमुखेनापि न स्त्रीस्वरूपं जानातीति भावः । नारीणामनभिज्ञ इति कर्मणि षष्ठी । विषयाणां शब्दस्पर्शरूपरसगन्धानां सम्बधिनः सुखस्य चानभिज्ञश्च भवति ॥३॥ इन्द्रियति । नरचित्तप्रमाथिभिः नरचित्ताकर्षके, तमिति शेषः। क्षिप्रं शीप्रमानाययिष्यामः । अध्यवसी। यतां निश्चीयताम्, अस्मदुक्तप्रकार इति शेषः ॥ ४॥ के इन्द्रियार्थाः, कथं तैरानयनम् ? तबाह-गणिका इति । गणिका वेश्याः । प्रलोभ्य वञ्चयित्वा सत्कृताः अस्माभिः कृतबहुमानाः, ऋश्यशृङ्गेण वा ॥५॥ श्रुत्वेति । राजा पुरोहितं तथेति प्रत्युवाच । पुरोहितोऽपि मन्त्रिणस्तथेति प्रत्युवाच ।। तेच मन्त्रिणस्तथा चकुः, तेषामेवाधिकारात् वारमुख्याः प्रेषयामासुरित्यर्थः । वारेति अईमेकम् । वारशब्देन वारस्त्रिय उच्यन्ते, नामकदेशे नामग्रह ।
इन्द्रियार्थरभिमतैनरचित्तप्रमाथिभिः। पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ ४॥ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः। प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः॥५॥श्रुत्वा तथेति राजा च प्रत्युवाच पुरो हितम् । पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा। वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुमहत् ॥६॥आश्रमस्या विदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने। ऋषिपुत्रस्य धीरम्य नित्यमाश्रमवासिनः ॥ ७॥ पितुः स नित्यसन्तुष्टो नाति चक्राम चाश्रमात् ॥८॥न तेन जन्मप्रभृति दृष्टपूर्व तपस्विना । स्त्री वा पुमान् वा यच्चान्यत्सर्व नगरराष्ट्रजम् ॥९॥ ततः कदाचित्तं देशमाजगाम यदृच्छया। विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १०॥ ताश्चित्रवेषाः प्रमदा
गायन्त्यो मधुरस्वरः । ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥११॥ णात् ॥६॥ आश्रमस्येति । अस्मिन्वने आश्रमस्याविदूरे। दर्शने ऋष्यशृङ्गदर्शने । यत्नम् अवधानम्, कुर्वन्ति अकुर्वन् । ऋषिपुत्रस्येत्यादिविशेषणत्रयं । यत्नस्य कर्तव्यत्वे हेतुः ॥ ७॥ उक्तहेतुं विवृणोति-पितुरित्यर्दैन । पितुः सकाशान्नित्यसन्तुष्टः । पितृशुपणकरत इत्यर्थः ॥८॥ इत्वन्तरमाइ-ई न तेनेति । जन्मप्रभृति जन्मारभ्य, नगरजमश्वादि, राष्ट्रजं कुक्कुटादि ॥ ९॥ तत इति । यदृच्छया दैववशात् ॥ ३० ॥ ता इति । चित्रवेषाः नाना मे मत्तः ॥१॥२॥कश्यशृङ्ग इति । विषयाणां शब्दादीनां सुखस्य विषयमुखस्य च ॥३॥ इन्द्रियार्थरिति । नरचिनप्रमाथिभिः नरचित्तक्षोभकरहेतुभिः । अध्यवर सीयता निकीयताम् ॥ ४-६॥ वारमुख्या इति सार्धश्लोकमेकं वाक्यम् । अस्मिन् दर्शने ऋष्यशृङ्गदर्शनस्य सुद्धिस्थत्वादम्मिनिति निर्देशः । कुर्वन्ति अकुर्वन् ॥७॥ पितुरिति । पितुः सन्तुष्टः । पितुरिति तृतीयार्थे षष्टी । विषयान्तरानपेक्ष इति यावत् । नानिचकाम न निरगान ॥८॥९॥तत इति । यहच्या देवळात ॥११॥
For Private And Personal Use Only