________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.नक्षमान ऋश्यशृङ्गानयनाचितान उपायांश्चिन्तयित्वा तान् तस्य राज्ञा वक्ष्यन्ति । एतैरुपायवयं विप्रमानप्यामः। न च दोषो भविष्यति ऋश्यशृङ्गस्य टी.बा.को ब्रह्मचर्यवेकल्यदोपश्च न भविष्यति । तत्र भवता न शङ्कनीयम्, यथा गणिकासम्पकों न भवेत् तथा आनंष्याम इत्यर्थः, ऋषिशापदापो न भविष्य
Falम तीतिवार्थः, अनावृष्टिदोपा न भविष्यतीति वा । इति वक्ष्यन्नीति पूर्वेणान्वयः ॥ १६ ॥ सनत्कुमारोक्तं समाप्य स्वयमाह-एवमिति । यथा आन यिष्याम इन्युक्तमेवमानीतः । देवः पर्जन्यश्चावर्षयत । शान्ता रामपादकन्या च, अस्मै ऋश्यशृङ्गाय । प्रदीयते प्रादीयत । कालसामान्य लट ॥१७॥
एवमङ्गाधिपेनैव गणिकाभिषेः सुतः । आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥१७॥ ऋश्यशृङ्गस्तु जामाता पुत्रान् तव विधास्यति । सनत्कुमारकथितमेतावद्याहृतं मया ॥ १८॥ अथ हृष्टा दशरथः सुमन्त्रं प्रत्यभाषत। यथर्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ १९॥ इत्याचे श्रीरामा वाल्मी आदिवाल• नवमः सर्गः ॥९॥ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा। यथर्यशङ्गस्त्वानीतः शृणु मे मन्त्रिभिः सह ॥ 1 ॥रोमपादमुवाचेदं सहामात्यपुरोहितः। उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥२॥ ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः।
अनभिज्ञः स नारीणां विषयाणां सुखस्य च ॥३॥ ऋश्यशृङ्ग इति । जामाता रोमपादस्य दशरथस्यापि वा । दशरथस्थौरसी शान्ता दत्ता रोमपादस्य । सनत्कुमारकथितमेतावत् । एवमङ्गाधिपने त्यादि तु मया व्याहृतमित्यर्थः । यद्वा सर्व सनत्कुमारवचनमेव । अवर्षयत् वर्षयिष्यति । प्रदीयते प्रदास्यते ॥१८॥ अर्थत्युत्तरशेषःश्लोकः । अत्र सग । विच्छेदो लेखकदोपकृत इति प्रतिभाति ॥१९॥ इति श्रीगोविन्दराजविरचित श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने नवमः सर्गः ॥९॥ सुमन्त्र इत्यादि । म मत्तः, म ऋश्यशृङ्गः यथा मन्त्रिभिरानीतः तथा शृणु । हेति प्रसिद्धौ॥ १॥ रोमेति । निरपायः अव्यभिचारिफलः ॥ २॥ ऋश्यशृङ्ग इति । तपःस्वाध्यायने तपःस्वाध्याययोः। “सर्बो इन्द्रो विभापयैकवद्भवति" इत्येकवद्भावः । “अन्येषामपि दृश्यते " इति ने विति । न गच्छेम इत्यत्र इतिशब्दो द्रष्टव्यः ॥ १५ ॥ वक्ष्यन्तीति । दोषः-तपोवैकल्यादिरूपः अनावृष्टिरूपदोषो वा ॥ १६॥ एवमङ्गाधिपेनेत्यादि सुमन्त्रवचनम् । यथा आनेप्याम इति तेरुक्तम् एवमानीतः। प्रदीयते-प्रादीयतेति भूतार्थ लट ॥१७॥ ऋश्यङ्ग इति । एतावद्याहतम् एतावन्मात्रमेव कथितम्, न समस्तं विशेषतश्च वक्ष्यते ॥ २८ ॥ १९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां नवमः सर्गः ॥९॥सुमन्त्रश्वोदित इति ।
Man
For Private And Personal Use Only