________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनावृष्टयामिति । श्रुतन वृद्धाः श्रुतवृद्धाः, बहुभ्यो बहुधा श्रुतशास्त्रा इत्यर्थः । प्रवक्ष्यति चेत्यन्वयः॥९॥ भवन्त इति । श्रुतधर्माणः “धर्मादनिच कलात्" इत्यनिच । लोकचारित्रवेदिनः लोकाचारज्ञाः, अतः अनावृष्टिमूलस्य मत्पापस्य प्रायश्चित्तं यथा भवेत् तादृशं नियममनुष्ठेयधर्मम्, आदि शन्तु ।। 1 ।। शुद्धब्रह्मचारिणं कन्याप्रदानमव परमं प्रायश्चित्तमिति वक्ष्यन्तीत्याइ-वक्ष्यन्तीत्यादिना । सर्वोपायैः नानाविधोपायैः ॥ ११॥ आना येति । ऋश्यशृङ्गम् इत्यत्र "ऋत्यकः” इति प्रकृतिभावः । आनाय्येति आङपसृष्टात् “णीभ प्रापणे" इत्यस्माद्धेतुमण्ण्यन्ताल्ल्यप । प्रयच्छ|
अनावृष्टयां तु वृत्तायां राजा दुःखसमन्वितः। ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ ९॥ भवन्तः श्रुत धर्माणो लोकचारित्रवेदिनः । समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत ॥ १०॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभण्डकसुतं राजन सर्वोपायरिहानय ॥ ॥ आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १२॥ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १३॥ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान । पुरोहितममात्यांश्च ततः प्रेप्यति सत्कृतान् ॥ १४॥ ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषीता अनुनेप्यन्ति तं नृपम् ॥१५॥ वक्ष्यन्ति चिन्तयित्वा ते तम्योपायांश्च तत्क्षमान । आनेप्यामो वयं विप्रं न च दोषो भविष्यति ॥१६॥ नि । ऋश्यशृङ्गायतिपः । सुसत्कृतमित्यानयनक्रियाविशेषणम् । सुसमाहितः निर्विचार इति यावत ।। १२॥ तेषामिति । चिन्ताप्रकारमाह कनेति। बीयवान् नियतब्रह्मचर्यः ।। १३॥ तत इति । विनिश्चिन्य ब्राह्मणं ब्राह्मणा एवानप्यन्तीति निश्चिन्त्य । ततः तस्माइंशात् । प्रेष्यति ग्रंपयिष्यति । भवि प्यदर्थे लट् । "कालसामान्ये लवक्तव्यः" इति वचनात् ॥१४॥ ते विति । व्यथिताः खिन्नाः अतएव विनताननाः नम्रमुखाः, ऋषेविभण्डकात भीता इत्यनन्तरभितिकरणं बोध्यम् । अनुनष्यन्ति न वयं गन्तुं शक्ताः किन्तु तदानयन उपायं विचिन्न्य वक्ष्याम इति सान्त्वयिष्यन्ति ॥१५॥ वक्ष्यन्तीति । सुघोरा-स्वकीयसर्वराष्ट्रव्यापिनी, अतएव मर्वभूतभयावहा ॥ 4-10 ॥ तेषामिति । वीर्यवान-वशीकृतेन्द्रियः ॥ १३ ॥ तत इति । ततः प्रेप्यति प्रषयिष्यति ॥१४॥
For Private And Personal Use Only