________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
निपातितः । तथा कुर्म इत्यब्रुवन् समीचीनो महाराजस्याध्यवसाय इति प्रत्यपूजयंश्च ॥ १९ ॥ तथेति । वर्द्धयन्तः, आशीर्भिरिति शेषः । द्विजाः ऋत्विजः । भाविन्यां चैत्र पौर्णमास्यां तथैव करिष्याम इत्युक्त्वा जग्मुरित्यर्थः ॥ २०॥ विसर्जयित्वेति । क्रतुः क्रतुसम्भारः । आप्यतां सम्पाद्यताम् ॥ २१ ॥ इतीति । महाद्युतिरिति प्रीत्यतिशयद्योतनम् ॥२२॥ तत इति । ताः प्रसिद्धाः कौसल्याद्याः पत्नीः यज्ञाहः “पत्युर्नो यज्ञसंयोगे ” इति पतिशब्दस्य यज्ञफूल भोक्तृत्वरूपयज्ञसंयोगे नकारादेशविधानात् । दीक्षां दीक्षाध्यवसायं, विशत गच्छतेत्यर्थः । सुतकारणात् सुतार्थम् । “निमित्तकारणहेतूनां प्रयोगे सर्वासा मिष्टिः” इति पञ्चमी ॥ २३॥ तासामिति । अतिकान्तेन अत्यन्तमिष्टेन । मुखपद्मानि सुन्दराणि मुखानीत्यर्थः॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम्। अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥ विसर्जयित्वा तान विप्रान् सचिवानिदमब्रवीत् । ऋत्विग्भिरुपदिष्टोऽयं यथावत् ऋतुराप्यताम् ॥ २१ ॥ इत्युक्त्वा नृपशार्दूलः सूचिवान् समुपस्थितान् । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २२ ॥ ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः उवाच दीक्षां विशत् यक्ष्येऽहं सुतकारणात् ॥ २३ ॥ तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥ ८ ॥ एतच्छ्रुत्वा रहः सुतो राजानमिदमब्रवीत् । ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ १॥ सनत्कुमारो भगवान पूर्वं कथितवान् कथाम् । ऋषीणां सन्निधौ राजन तव पुत्रागमं प्रति ॥ २ ॥
यणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥ अथ भगवदवतारासाधारणकारणं पुत्रेष्टिमुपक्षिपति सर्गत्रयेण एतच्छुत्वेत्यादि । सूतः सारथित्वेन मन्त्रित्वेन च स्थितः सुमन्त्रः । रह एकान्ते इदमत्रवीत् अन्तःपुरमागत्योक्तवानित्यर्थः। अयं अश्वमेघप्रवृत्तिरूपः पुत्रार्थोपायः। ऋत्विग्भिः वसिष्टादिभिः उपदिष्टः, मया तु पुरावृत्तः इतिहासरूपः यः श्रुतः ॥ १॥ कथमित्यत्राह - सनत्कुमार इत्यादि । भगवान् भविष्यज्ज्ञानवत्त्वरूपमाहात्म्यवान्। आज्ञानतिक्रमेण ॥ १९ ॥ तथा द्विजा इति वर्धयन्तः, आशीर्भिरिति शेषः ॥ २० ॥ विसर्जयित्वेति । ऋतुः ऋतुसम्भारः । आप्यतां समापद्यताम् ॥ २१ ॥ २२ ॥ पत्नीः यज्ञार्हाः ॥ २३ ॥२४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणन स्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टमस्सर्गः ॥८॥ एतच्छ्रुत्वेति । एतद सुताई २ कप्यताम् । च भव समर्थाः करणेवित । श्याधिकः पाठः ।
For Private And Personal Use Only