________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मातानिति । अथ गुर्वागमनानन्तरम् । श्लक्ष्णं मधुरम् ॥ ७ ॥ ममेति । लालप्यमानस्य भृशं विलपतः। लापेर्यङताच्छानच् ॥ ८॥ तदिति । तत् ।
पुत्रेच्छुत्त्वात् यष्टुं दीक्षितुम्, शास्त्रदृष्टेन कर्मणा विधिना, प्रकारेणेति यावत् । कर्मणा क्रियाकलापेनेति वा। कामं काम्यमानं यज्ञम् । कथं प्राप्स्यामि, विघ्नभूयस्त्वादिति भावः। अत्र निर्विघ्नयागकरणे। बुद्धिः उपायः, विचार्यताम् ॥ ९॥ तत इति । प्रत्यपूजयन् तुष्टुवुः । पार्थिवस्य मुखा युतम्, साक्षादाज्ञोक्तमित्यर्थः । ऊचुरित्यर्द्धमेकम् । दशरंथं वच ऊचुः । “भशासु-" इत्यादिना द्विकर्मकत्वम् ॥ १० ॥ सम्भारा इति । ते तान पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥ ७॥ मम लालप्य मानस्य पुत्रार्थ नास्ति वै सुखम् । तदर्थ हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८॥ तदहं यष्टमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ ९॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्युतम् । ऊचुश्च परमप्रीताः सर्वे दशरथं वचः॥१०॥ सम्भाराः सम्ध्रियन्तां ते तुरङ्गश्च विमुच्यताम् ॥ ११ ॥ सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थ मागता ॥ १२ ॥ ततः प्रीतोऽभवद्राजा श्रुत्वैतद्धिजभाषितम् । अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ १३ ॥
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह । समाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १४॥ प्रसिद्धाः सम्भाराः यज्ञोपकरणानि यूपपात्रादीनि । सम्भ्रियन्तां सम्पाद्यन्ताम् । तुरङ्गः अश्वमेधीयोऽश्वः ॥ ११ ॥ सर्वथेति । एकपुत्रस्यापुत्रप्राय शत्वात् “एष्टव्या बहवः पुत्राः" इति वचनाच्च पुत्रानिति बहुवचनम् । प्राप्स्यस इति कर्मकर्तर्यात्मनेपदम् । धार्मिकी “धर्म चरति" इति ठक् । धर्माला
चरणविषयिणीत्यर्थः ।। १२॥ तत इति । हर्षेण हर्षाश्रुणा पर्याकुले व्याप्ते ईक्षणे यस्य सः, हर्षेण व्याकुलदृष्टिमान् । कियाभेदादाजपदद्वयमिति न.1 KIविरोधः ॥१३॥ सम्भारा इति । मे गुरूणामित्यन्वयः। इह इदानीं समर्थः "चतुःशतारक्षन्ति यज्ञस्याघाताय" इत्युक्तरीत्या रक्षणसमथैः । अधिष्ठितः।
तानिति। धर्मार्थसहितं धर्मप्रयोजनसहितं, लक्ष्णं मनोहरम्॥७॥ ममेति । लालप्यमानस्य भृशं विलपतः॥८॥ तदहमिति । शाखदृष्टेन शास्त्रोक्तेन, कर्मणा क्रियाकला पेन । बुद्धिरत्रेत्यत्र बुद्धिरुपायपरः निश्चयपरो वा, प्रत्यपूजयन् तुष्टुवुः ॥९-११॥ सर्वथेति। धार्मिकी-धर्मप्रयोजना ॥ १२॥ १३ ॥ सम्भारा इति । अत्र समर्थ ।।
For Private And Personal Use Only