________________
Shri Mahavir Jain Aradhana Kendra
वा. रा. भ. ॥६०॥
www.kobatirth.org
कार्यकरणसमर्थैः मन्त्रिभिर्वृतः नृपः । तेजांमयैः, स्वार्थे मयट । गांभिः किरणैर्युक्तः उदितोऽर्कः बालसूर्य इव दीप्तिमवाप । त्रिष्टुपजातिवृत्तम् ॥२२॥ ॐ टी.बा.का. इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥ एवं धार्मिकत्वेन दशरथस्य भगवदवतार योग्यत्वमुक्त्वा अथ तदुपयुक्ततदाराधनोपक्रमं दर्शयत्यष्टमे तस्येति । उत्तरश्लोकवक्ष्यमाणचिन्ता युक्तेति सूचयितुं राज्ञां विशेषणानि । तप्यमानस्य तपश्वरतः । यद्वा पुत्रोत्पादनानुगुणदृष्टसामग्रीसत्त्वेऽपि पुत्राभावात् परितप्यमानस्य ॥ १ ॥ चिन्तयानम्येति । चिन्तयानस्य पुत्रान्पत्त्युपायं मार्ग
म० ८
तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थ तप्यमानस्य नासीद्वंशकरः सुतः ॥ १ ॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिस्सह धर्मात्मा सर्वरेव कृतात्मभिः ॥ ३ ॥ ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिमत्तमम् । शीघ्रमानय मे सर्वान् गुरुंस्तान सपुरोहितान् ॥ ४ ॥ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान समस्तान वेदपारगान् ॥ ५ ॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्टं च ये चान्ये द्विजसत्तमाः ॥ ६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
माणस्य । मुगभाव आर्पः । एवं वक्ष्यमाणरीत्या न यजामि नायाक्षिपम् ॥ २ ॥ स इत्यादि लोकद्वयमकान्त्रयम् । कृतात्मभिः पर्याप्तबुद्धिभिः "कीबे कृतं युगेऽपि स्यात् फलपर्याप्तयोरपि ।" इति भास्करः ||३|| तान् प्रसिद्धान् ॥ ४॥ तत इति । त्वरितं तत्क्षण एव । त्वरितविक्रमः स्वस्तिगमनः समस्तान् संमिलितान् समानयत् राजगृहमिति शेषः॥ ५ ॥ गुरूनेवाह - सुयज्ञमिति । समानयदिति पूर्वेणान्वयः । सुयज्ञादीनां गुरुन्यमान्विज्यकरणात् ॥ ६ ॥ सामभ्यंप्रचुरैर्मन्त्रविशेषमेतत ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीगमायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां मतमः सर्गः ॥ ॥ तस्य त्वमिति । तप्यमानस्य पुत्रानुगुण्यदृष्टसामग्रीसद्भावेपि पुत्रालाभात्परितप्यमानस्य ॥ १ ॥ चिन्नयानस्येति । चिन्तयानस्य पुत्रान्पन्युपायं मार्गमाणम्य न यजामि न यक्ष्य ॥ २ ॥ स इति । निश्चितां निश्चितार्थाम् ॥ ३ ॥ ४ ॥ तत इति । त्वरितविक्रमः स्वस्तिगमनः । सर्वान गुमन नान समस्तान वेदपारगांश्च ॥ ॥६॥
For Private And Personal Use Only
॥६०॥