________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उपपन्नः । अनघः व्यसनरहितः । उक्तं मनुना -“दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयंत्रन विवर्जयेत् ॥ " इति । व्यसन स्वरूपं चोक्तम्- "मृगयाक्षी दिवास्वापः परिवादः स्त्रियो मदः । तौयधिकं थाट्या च कामजां दशको गुणः ॥ पैशुन्यं साहसं द्रोह ईप्यासूयार्थदूषणे। वाग्दण्डनं च पारुष्यं क्रोधजोऽपि गुणोऽष्टकः॥” इति । दृशस्थां राजा वसुन्धरां भूमिम् । अन्वशासदिति लुङ । “सर्तिशास्त्यतिभ्यश्च" इत्याह ॥ १८ ॥ अवेक्षमाण इति कयमेकान्वयम् । चारेण चक्षुःस्थानीयन अवक्षमाणः स्वपरराष्ट्र वृत्तान्तान् पश्यन् । जात्येकवचनमिदम् अनेकचाज्ञयन्ववच अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् । प्रजानां पालनं कुर्वन्नधर्म परिवर्जयन् ॥ १९ ॥ विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ २० ॥ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद्राजा दिवं देवपतिर्यथा ॥ २१॥ मन्त्रिभिर्मन्त्रहिते नियुक्त वृतोऽनुरक्तैः कुशलैः समर्थेः । स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥ ७ ॥
नात् । यथाह मनुः- " वने वनचराः कार्या श्रमणाटविकादयः । परप्रवृत्तिज्ञानार्थं शीघ्राश्वारपरम्पराः ॥” इति । धर्मेण दण्डयदण्डनादिना प्रजा रञ्ज यन् आह्लादयन, पालनमनिष्टनिवृत्तिपूर्वकेष्टप्रापणम् । अधर्मम् अदण्डचदण्डनादि विश्रुतः दानविक्रमादिभिः प्रसिद्धः । वदान्यः दानशीलः । सत्य सङ्गरः सत्यप्रतिज्ञः । “सङ्गरो ना क्रियाकाले प्रतिज्ञाविपदोर्युधि । " इति यादवः । सः पुरुषव्याघ्रः पुरुषश्रेष्ठः । तत्र अयोध्यायाम् वसन्निति शेषः | ॥ १९ ॥ २० ॥ नाध्यगच्छदिति । विशिष्टमधिकं तुल्यं वा आत्मनः शत्रुं नाध्यगच्छत् न ज्ञातवान् । तत्र हेतुमाह-मित्रवान् नतसामन्तः पादानत समानसीभाधिपतिकः । प्रतापेन हताः कण्टकाः शत्रवो यस्य स तथा । " वेणी द्रुमा रोमाञ्च क्षुद्रशत्रौ च कण्टकः।” इति यादवः । स इति शेषः । उक्तमर्थ सदृष्टान्तमाह- स इति अर्द्धमेकम् ॥ २१ ॥ सर्गार्थं सङ्ग्रहेण दर्शयति-तैरिति । मन्त्रहिते मन्त्रे हितं च नियुक्तैः कुशलैः बुद्धिकुशलैः समर्थः वन्तः ॥ १५ ॥ सन्धीति । मन्त्रसंवरणे मन्त्ररक्षणे सक्ष्मासु बुद्धिषु शक्ताः सूक्ष्मार्थविषयेषु निश्वयेषु शक्ताः ॥ १६-१८ ॥ अवेक्षमाण इति । स्त्रेषु परेषु च वृत्तान्त मितिशेषः ॥ १९ ॥ विश्रुत इति । सत्यसङ्गरः सत्यप्रतिज्ञः ॥ २० ॥ नेति । नाध्यगच्छत् न ज्ञातवान् । पाण्टकः इति पाठे - प्रतापेन समन्तान्निहन कण्टक इत्यर्थः ॥ २१ ॥ तैरिति । मन्त्रहिते निविधैः मन्ये हिते च निविष्टः कुशलैः सूक्ष्मार्थदर्शननिपुणैः समर्थस्तत्साधनशक्तैः गोभिर्मयूखैस्तेजोमयैः पराभिभव
For Private And Personal Use Only
Acharya Shri Kalassagarsuri Gyanmandir
יי