________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भ.
॥॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ऋत्विजाविति । वसिष्ठः वामदेवश्च द्वौ ऋषिसत्तमौ ऋत्विज पुरोहितो अभिमतो प्रधानौ आस्ताम् तथा अभिमताः अपरे मन्त्रिणः ऋत्विजः जावा लिप्रभृतयश्चासन् ||४|| अथ मन्त्रिगुणान् प्रपञ्चयति सर्गशेषेण विद्येति । विद्यासु आन्वीक्षिकीप्रभृतिषु विनीताः शिक्षिताः ह्रीमन्तः अकृत्यकरणेषु लज्जावन्तः कुशलाः नीतौ समर्थाः, नियतेन्द्रियाः अविहितविषयेभ्यो निवृत्ताः श्रीमन्तः लक्ष्मीसमृद्धाः, महात्मानः महाबुद्धयः, शास्त्रज्ञाः नीति शास्त्रज्ञाः, दृढविक्रमाः अप्रतिहतपराक्रमाः ॥ ५ ॥ कीर्तिमन्त इति । प्रणिहिताः राजकृत्येष्वप्रमत्ताः यथावचनकारिणः यथोक्तवन्तस्तथैव कुर्वन्ति, न तु" मनस्यन्यद्वचस्यन्यत् कर्मण्यन्यत् " इति न्यायत इति भावः । तेजःक्षमायशांसि प्राप्ताः । “ द्वितीया श्रित-" इत्यादिना समासः । अत्र ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथाऽपरे ॥ ४ ॥ विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः । श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ॥ ५ ॥ कीर्तिमन्तः प्रणिहिता यथावचनकारिणः । तेजः क्षमायशः प्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात्काभार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ६ ॥ तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ७॥ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ॥ ८ ॥
यशः प्रतापक्षमाजन्या प्रथा । कीर्तिमन्त इत्यत्र कीर्तिस्तु मन्त्रज्ञताकृता प्रथा । स्मितपूर्वाभिभाषिण इत्यनेन निर्मत्सरत्वमुच्यते । जासनू, मन्त्रिण इति श्लोकद्रयशेषः । क्रोधादिति अर्द्धमेकान्वयम् । क्रोधाद्वा कामहतार्थताव अनृतमसत्यं वचो न ब्रूयुः ॥ ६ ॥ तेषामिति । तेषां मन्त्रिणां स्वेषु स्वराष्ट्रीयवृत्तान्तेषु परेषु परराष्ट्रीयवृत्तान्तेषु च कृतं क्रियमाणम्. चिकीर्षितं कर्त्तुमिष्टम् करिष्यमाणमिति यावत् । यत्किञ्चिदपि वा वृत्तं चारेण चारमुखेन अविदितं नास्ति, सर्वोऽपि स्वराष्ट्रपरराष्ट्रवृत्तान्तभेदस्तैर्ज्ञाति इत्यर्थः ॥ ७ ॥ कुशला इति । व्यवहारेषु निश्चितार्थप्रतिपादनेषु ऋत्विजाविति । प्रधानऋत्विजोर्वसिष्ठवामदेवयोरपि मन्त्रिमध्ये पाठात् मन्त्रपर्यालोचनायामप्यन्तर्भावो द्योत्यते ॥ ४॥ विद्येति । विद्याविनीताः विद्यया विनीताः । शस्त्रज्ञाः शस्त्रप्रयोगतिपादूकधनुर्वेदविद् इत्यर्थः । दृविक्रमाः शास्त्रप्रयोगादिना पराभिभवसामर्थ्यवन्तः । प्रणिहिताः सर्वेष्वपि कार्येषु सावधानाः । कामार्थ हेतोः काम हेतोरर्थहेतोरिति हेतुशब्दः प्रत्येकं सम्बध्यते ॥ ५ ॥ ६ ॥ तेषामिति । चारेण हेतुना अविदितं किञ्चिन्नास्तीति संबन्धः । स्वेषु नाम्नि परेषु वा स्वकी नमुखेन सर्वं जानन्नीत्यर्थः ॥ ७ ॥ कुशला इति । सोहदेषु मित्रभावेषु । प्राप्तकालम् अवसर प्राप्तं दण्डम् ॥ ८ ॥
[
For Private And Personal Use Only
टी.बा.कां.
२०७
||५८