________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
·
इयमत्यन्तं योद्धुमशक्येत्यर्थ इत्यप्याहुः॥ २६॥ पालनं चाब्रादनपूर्वक मित्याशयेनाह - तामिति ॥ २७॥ सर्वोतमर्थ संक्षेपेण सगन्ति पुनर्दर्शयति- तामिति । अर्गलं नाम कवाट निश्चलत्वाय तिनिबद्धो दारुविशेषः । “तद्विष्कम्भोऽगलं न ना” इत्यमरः । शिवां मङ्गलवतीम् । वंशस्थापजातिवृत्तम् ||२८|| इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणं मणिमञ्जीराख्याने बालकाण्डव्याख्याने पष्टः सर्गः ॥ ६ ॥ अथोक्तगुणसम्पन्नस्य दशरथस्य धर्मा |नुष्ठानसहायसाधिष्ठसचिवसम्पत्ति दर्शयति सप्तमे-तस्येत्यादि । महात्मनः महामतेः तस्य इक्ष्वाको दशरथस्य तद्वंशजत्वात्तच्छन्दः । मन्त्रज्ञाः काय विचारज्ञाः । इङ्गितं पराभिप्रायः तं मुखविकाससङ्कोचव्यङ्ग्यवचनादिभिजनन्तीति इङ्गितज्ञाः । अमात्याः अमा राज्ञः सर्वराज्यव्यापारेषु सहभवन्ती
पुरी स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥ तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमी महीपतिः ॥ २८ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्टः सर्गः ॥ ६ ॥
तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः । मन्त्रज्ञाचेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥ अष्टौ वभूव वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥ धृष्टिर्जयन्तो विजयः सिद्धार्थी ह्यार्थसाधकः । अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ॥
त्यमात्याः । “अव्ययात्त्यप्” । गुणैः वक्ष्यमाणमन्त्रिगुणैः उपेता आसन् ॥ १ ॥ “मन्त्रिणः सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान् " इति मनुनोक्तरीत्याहअष्टाविति । शुचयः सर्वात्मना स्वामिद्रोह चिन्तारहिताः, नित्यशः राजकृत्येषु तदनुष्टानेषु अनुरक्ताः तत्पराः, अष्टावमात्या बभूवुः ॥ २ ॥ तेषां नामानि दर्शयति- धृष्टिरिति । धृष्टिः प्रथमोऽभवत् जयन्तो द्वितीयोऽभूत् इति क्रमेण योजयित्वा सुमन्त्रोऽष्टमोऽभवदिति योज्यम् ॥ ३ ॥ सा पुरी अन्तर्द्वयोर्योजनयोर्भूयः सत्यनामा अतिशयेन योद्धुमशक्येत्यन्वर्थनामेत्यर्थः ॥ २६ ॥ २७ ॥ तामिनि । दृढतारणार्गलाम् अगलंनाम कवाटावष्टम्भक तिर्यक्स्थापितो दारुविशेषः ॥ २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्ठः सर्गः ॥ ६ ॥ तस्यामात्या इति । गुणैः प्रज्ञादिभिः मन्त्रज्ञा राजकार्यविचारात्मकं मन्त्रं जानन्नीति तथा । प्रियम्य राज्ञः हिते रताः । इङ्गिनज्ञाः मुग्वत्रिकासादिलिङ्गैः पराभिप्रायवेदिनः ॥ १ ॥ अष्टाविति । शुचयश्चानुरक्ताश्व राज्यकार्येषु नित्यशः इत्यनेन स्वप्रयोजनं विहाय स्वामिकार्यनिग्नत्वमुच्यते ॥ २ ॥ ३ ॥
For Private And Personal Use Only