________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिति निपातः । “शक्यमरविन्दसुरभिः” इति कालिदासेनापि प्रयुक्तः । कदर्यो वा द्रष्टुं न शक्यम् । “आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥" नृशंसः क्रूरोऽपि न दृष्टुं शक्यम्। "नृशंसो घातुकः क्रूरः" इत्यमरः । अविद्वान् विद्यारहितः । पर लोको नास्तीति यो मन्यते स नास्तिकः । “अस्ति नास्ति दिष्टं मतिः" इति ठक् ॥ ८ ॥ सर्व इति । अयोध्यायां सर्वे नराः सर्वा नार्यश्च धर्मशील स्वादिविशिष्टा भवन्ति । सुसंयताः सुदु नियतेन्द्रियाः शीलवृत्ताभ्याम् उदिताः उत्पन्नाः, सहजशीलवृत्ता इत्यर्थः । शीलं सत्स्वभावः, वृत्तमाचारः । " शीलं स्वभाव सद्वृत्ते । वृत्तं पद्ये चरित्रे च " इत्युभयत्राप्यमरः । अमलाः निर्मलमनस्काः ॥ ९ ॥ नाकुण्डली | अयोध्यायां न विद्यते एवमुत्तरत्राप्यन्वयः । अल्पभोगवान् अल्पसुखवान्। " भांगः सुखे ख्यादिभृतावहेच फणकापयोः " इत्यमरः । नामृष्टः अनभ्यङ्गस्त्रान
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥ नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो नानुलिप्ताङ्गो नासुगन्धञ्च विद्यते ॥ १० ॥ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ ११ ॥ नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीयोध्यायां न च निर्वृत्तसङ्करः ॥ १२ ॥
Acharya Shri Kalassagarsuri Gyanmandir
शुद्धः नानुलिप्ताङ्ग इत्यत्र सुप्रसुपेति समासः । चन्दनाद्यननुलिप्ताङ्ग इत्यर्थः । अत्रापि नभनुषज्यते । सुगन्धशब्देन कुङ्कुमकस्तूर्यादिकमुच्यते ॥ १० ॥ नामृष्टेति । मृष्टं पूर्णम् अन्नाभावप्रयुक्ताल्पभाजनवानयोध्यायां न दृश्यते । एवमुत्तरत्रापि योज्यम् । दाता प्रकरणादन्नदाता । अङ्गदं बाहुभूषणम्, निष्कमुरोभूषणम्। "साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारंऽपि न निष्कोऽस्त्री" इत्यमरः । ते घरतीति अङ्गदनिष्कधृक् । धृगित्येव पाठः । हस्ता भरणं कटकाङ्गुलीयकादि । अनात्मवान् अजितान्तःकरणः ||११|| नेति । आहिताग्निः अजस्राग्निहोत्री । यज्वापि हि कश्विद्विच्छिन्नानिर्भवति । अयज्वा कदर्यः अतिलोभी, आत्मानं पुचादीच यो वति स कदर्यः । शक्यमिति वस्तुसामान्येन नपुंसकलिङ्गनिर्देशः ॥ ८ ॥ ९ ॥ नाकुण्डलीति । अमृष्टः अनिर्मलशरीरः, | शोभनो गन्धः स्वाभाविकशरीरा मोदी ग्रस्य निष्कमुरोभूषणम् ॥ १० ॥ ११ ॥ नोत । अयज्वानाम यागरहितः, आहिताग्निः केवलाग्न्याधानवान । निर्वृत्तः सङ्करः वर्णसङ्करो यस्य ॥ १२ ॥
For Private And Personal Use Only