________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रभुत्वाधीनतासु ना" इति भास्करः । महर्षिकल्पः महर्षितुल्यः । राजर्षिः राजरूपऋषिः । त्रिषु लोकेषु भूर्भुवः स्वलोकेषु विश्रुतः प्रसिद्धः ॥ २ ॥ बलवान चतुरङ्गसमायुक्तः अतएव निहतामित्रः निहतशात्रवः । मित्रवान् प्रशस्तमित्रयुक्तः । विजितेन्द्रियः निषिद्धेषु शब्दादिष्वप्रवर्तितेन्द्रियः । धनै हिरण्यरत्नादिव्याम्बराभरणादिभिः अन्यः तदपेक्षयान्यैः । संग्रहेः संचयैः निधिभिरिति यावत् । शक्रवैश्रवणापमः यथाक्रमम् इन्द्रकुवंरोपमः ॥३॥ यथा मनुः वैवस्वतमनुः लोकस्य परिरक्षिता तथा दशरथ राजा तस्यां वसन् जगद्भूलोकम् अपालयत् ॥ ४ ॥ एवं राजगुणाः उक्ताः लोकपालनं चोकम् । संप्रति पुरपरिपालनमाह तनेति । सत्यं सन्धा अभिप्रायो यस्य तेन त्रिवर्ग धर्मार्थकामान् अनुतिष्ठता अनुसरता पालिता सत्यादिपुरस्सरं त्रिवगार्थ पालितेत्यर्थः ॥ ५ ॥ पालनफलं दर्शयति तस्मिन्नित्यादिना मानवेन्द्रेण धीमतेत्यन्तेन । हृष्टाः वाससौख्येन प्रीताः धर्मात्मानः बहुश्रुतं शास्त्र वलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः । धनैश्च संग्रहैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥ यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा वसन् जगदपालयत् ॥ ४ ॥ तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥ तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥ नाल्पसन्निचयः कश्चिदासीत्तस्मिन पुरोत्तमे । कुटुम्बी यो सिद्धार्थोऽगवाश्ववन धान्यवान् ॥७॥ कामी वा न कदर्यो वा नृशंसः पुरुषः कचिन । द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥८॥ श्रवणं येषां ते बहुश्रुताः । स्वैः स्वैः धनैस्तुष्टाः, परधनानभिलाषिण इत्यर्थः । वीप्सया स्ववर्णस्वाश्रमोचितधनमात्रपरिग्रहः सूच्यते । अलुब्धाः दाने प्राप्त लोभरहिताः । सत्यवादिनः सत्यवचनशीलाः, आसन्नितिशेषः ॥ ६ ॥ नेति । तस्मिन्पुरोत्तमे पुरश्रेष्ठे अल्पसन्निचयः अल्पकोशवान्, अगवाश्वधन धान्यवान् असिद्धार्थः धनादिभिरप्राप्तधर्मार्थकामरूपपुरुषार्थः यः कुटुम्बी स कश्चिन्नासीत् । " माता पिता खुप पुत्र पुत्री पत्न्यतिथिः स्वयम् । दशसंख्यः कुटुम्बीति विष्णु द्विजोत्तम । " ॥ ७ ॥ कामीति । कामी कामैकपरः पुरुषः अयोध्यायां क्वचित कोणेऽपि द्रष्टुं न शक्यम् । शक्य सर्वज्ञः । सर्वसंग्रहः सर्वान संगृह्णाति शीकरोतीति तथा || १ || इक्ष्वाकृणामिति । वशी नियतेन्द्रियः ॥२-४॥ तेनेति । सत्याभिसन्धेन सत्यप्रतिज्ञेन ॥ ५ ॥ ६ ॥ नाल्प सन्निचय इति । सतामुत्कृष्टधनानां निचयः सन्निचयः अल्पः सन्निचयो यस्मात्तथा स नास्ति, अगवाश्वधनधान्यवानिति छेदः ॥ ७ ॥ कामीति । कामी कार्यकपरः ।
For Private And Personal Use Only
टी.बा.का.
स० ६
॥५५॥