________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिना डप्रत्ययः । सहस्ररैः बहुपदैः। सत्ये सत्यवचने रतैः निरतैः। महात्मभिः महामतिभिः । केवलैः ऋषिभिरपि । महर्षिकल्पैः वसिष्टादिंमहर्षितुल्यैः ।। ईषदसमाप्तौ कल्पप्प्रत्ययः । द्विजोत्तमैः आवृतां ताम्, आवासयामासेत्यनुषज्यते । अत्र वंशस्थवृत्ते प्रथमचरणे जगणाभावेनोपजातिवृत्तमिति बोध्यम् ।। आचार्याः प्राहुः- “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ” इति श्रुतिरनेनोपवृह्यते । द्विजोत्तमैः " अष्टवर्षे ब्राह्मण मुपनयीत " इत्युक्तरीत्या कृतोपनयनैः, वेदवडङ्गपारगैः अघीतसाङ्गसशिरस्कवेदैः: अग्रिमद्भिरनुष्ठितयज्ञैः सहस्रदैः यथाशक्तित्राह्मणसात्कृतद्रव्यैः, महात्मभिः महायत्त्रैः, कृततपस्कैरित्यर्थः । गुणवद्भिः शमदमाद्युपेतैः “ शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वा " इत्युक्त शमदमादिमद्भिः । सत्यरतैः "सत्यस्य सत्यम्" इत्युक्ते ब्रह्मणि भक्तिरूपापन्नज्ञानवद्भिः, केवलैः “तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् " इत्युक्तरीत्याना | तस्यां पुर्यामयोध्यायां वेदवित्सर्वसंग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥ इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ २ ॥
10
Acharya Shri Kalassagarsuri Gyanmandir
विष्कृतस्वरूपैः। ऋषिभिः “बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्युक्तस्वरूपैः । महर्षिकल्पैः “ यत्रर्षयः प्रथमजा ये पुराणाः " इत्युक्तरीत्या सूरिसदृशैः, आवृताम् अवतरिष्यति भगवानत्रेति समागम्य संसेवितां तामावासयामास । यद्वा हे केवल परिशुद्धचित्त ! ऐः त्वमपि वासाय गच्छेति कविराह, तदुपगतेतिवत् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ एवं भगवदवतारयोग्यदेशो दर्शितः, अथ तद्योग्यं पुरुषं दर्शयति सर्गे षष्ठे -तस्यामित्यादि श्लोकचतुष्टयमेकान्वयम् । दशरथः तस्यां वसन् सन् जगत् अपालयत् । स कीदृशः ? वेदं वेदार्थ वेत्तीति वेदवित्, संगृह्णाति धनप्रदानादिना स्वीकरोतीति सङ्ग्रहः । पचाद्यच् । सर्वेषां शूराणां विदुषां च संग्रहः सर्वसंग्रहः । दीर्घदर्शी दीर्घ चिरकालभाविपदार्थं द्रष्टुं शीलमस्यास्तीति तथा । ताच्छील्ये णिनिः । महातेजाः महाप्रतापः “तेजः पराक्रमे प्राणं वर्चस्य चिषि रेतसि " इति रत्नमाला। पुरं भवा जनाः पौराः, जनपदे भवा जानपदाः, ते प्रिया यस्य स तथा ||१|| इक्ष्वाकूणामिति । इक्ष्वाकूणां मध्ये अति रथः बहुभिर्महारथैरेको योद्धा रथी । यज्वा विधिनेष्टवान्। धर्मेषु तटाकखनन रामप्रवर्तनादिषु रतः । वशी स्वाधीनसर्वजनः । “त्रिष्वधीने वशां वाञ्छा गुणयुतैः । केवलैः मुख्यैः ॥२३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५ ॥ तस्यामिति । सर्ववित
For Private And Personal Use Only