________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अतएव इन्द्रस्येवामरावतीम्, इन्द्रपाठिताममरावतीमिव स्थितामित्यर्थः ॥ १५ ॥ चित्रामिति । चित्रां नानाराजगृहवतीम् । अष्टौ पदानि स्थानानि यस्य तदष्टापदम्, " अष्टनः संज्ञायाम् " इति दीर्घः । " अष्टापदं शारिफलम् " इत्यमरः । तदाकाराम्, तत्सदृशसंस्थानामित्यर्थः । मध्ये राजगृहं चतुर्दिक्षु राजवीथयः तन्मध्येष्ववकाशाश्वेत्येवंविधसंस्थानामित्यर्थः । वरनारीगणैः सुन्दरस्त्रीगणैः युतां संयुक्ताम् । सर्वरत्नैः समाकीर्णी व्याप्ताम् । तानि तु “ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्नं रोहितकं पद्मरागोऽरुणोपलः । विद्रुमो ना प्रवालोऽस्त्री वोऽस्त्री हीरकः पुमान् । इन्द्रनीलं महानीलं वैडूर्य वालवायजम् । कुरुविन्दास्तु कल्माषा रत्नभेदास्तु मौक्तिकम् । माणिक्यं पौष्यकं शङ्खः" इत्यादिनिघण्टुपर्यायोक्तानि । विमानाख्य
चित्रामष्टापदाकारां वरनारीगणैर्युताम् । सर्वरत्नसमाकीर्णा विमानगृहशोभिताम् ॥ १६ ॥ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डर सोदकाम् ॥ १७ ॥ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥ विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥
Acharya Shri Kalassagarsuri Gyanmandir
गृहैः शोभिताम् । “ विमानोऽस्त्री देवयाने सार्वभौमिक सद्मनि " इति भास्करः || १६ | गृहगाढामिति । गृहैः कुटुम्बिगृहैः गाढां निविडाम, अविच्छिद्रां निदूषणाम्, “छिद्रं रन्ध्रे दूषणेऽपि " इति भास्करः । समभूमौ अनिम्नोन्नतप्रदेशे निवेशितां निर्मिताम् | शालयः श्वेततण्डुला त्रीहयः । "शालयः श्वेत तण्डुलाः" इति वैजयन्ती । तेषां तण्डुलैः सम्पूर्णाम् । इक्षुकाण्डस्य इक्षुदण्डस्य यो रसस्तत्तुल्यमुदकं यस्यां ताम् ॥ १७॥ दुन्दुभीभिरिति । दुन्दुभीभि भैरीभिः । ईकारान्तत्वमार्षम् । मृदङ्गैः मृत अङ्गं येषां तैः पणवैः मद्दलेः । तथेति समुच्चये । भृशं नादिताम् पृथिव्याम् अत्यर्थमनुत्तमां श्रेष्ठां तां प्रसि द्धाम् || १८ || विमानमिति । सिद्धानां तपःसिद्धानां पुरुषाणां दिवि स्वर्गे तपसाधिगतं लब्धम् विमानमिव देवयानसमूहमिव स्थिताम् । जातावेकवचनम् । कूटारूयैरगारैः ॥ १५ ॥ चित्रामिति । अष्टापदाकारों द्यूतफलकाकारां स्वर्णाकारां वा । विमानगृहशोभितां विमानतुल्यैर्गृहेरुपशोभिताम् ॥ १६ ॥ गृहेति । ग्रह गाढां गाढगृहाम्, अच्छिद्रां निरन्तराम्, इक्षुकाण्डरसोदकाम इक्षुकाण्डरससदृशोदकाम् ॥ १७ ॥ दुन्दुभीभिरिति । भृशं नादिताम् अत्यर्थमनुत्तमामिति भृशात्यर्थ शब्दयोः सम्बन्धः ॥ १८ ॥ विमानमिति । सुनिवेशिनवेश्मान्ताम सुष्ठु निवेशिताः वेश्मनामन्ताः प्रदेशाः यस्यां नाम् ॥ १९ ॥
For Private And Personal Use Only