________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
Acharya Shri Kalassagarsun Gyanmandir
पुरी मूलनगरम्, उपनगरसाहित्ये त्वनेकयोजनास्तीति भावः । श्रीमती कान्तिमती। त्रीणि योजनानि विस्तीर्णा योजनत्रयवैपुल्यवती । सुत्रु विभक्ताः साउभयपाश्ववृक्षावलीमत्तया क्लुप्ताः महापथा: नानाजनपदगामिमागाः यस्यास्सा ॥ ७ ॥ राजमागणति । महता आनगरान्नेन सुविभक्तन ऋज]
तया क्लुप्तेन, मुक्तपुष्पावकीर्णेन मुक्तेः असूत्रयथितेः पुष्पेवकीर्णन । नित्यशः सर्वकालेऽपि । सप्तम्यर्थ शमप्रत्ययः । जलसिक्तेन वासु स्वतएव, अन्यदा मनुष्यैः । राजमार्गेण राजगृहदारात् प्रवृत्तेन मार्गेण शोभिता ॥ ८॥ अथ नगर्या महाराजाधिष्टितन्वरूपं गुणमाह-तां त्विति । महज नद्राष्ट्र
राजमार्गेण महता सुविभकेन शोभिता । मुक्तपुप्पावकीणेन जलसिक्तेन नित्यशः ॥८॥ तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः । पुरीमावासयामास दिवं देवपतियथा ॥ ९ ॥ कवाटतोरणवती सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ ॥
मूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ १॥ च महाराष्ट्रम्। “आन्महतः-" इत्यात्वम् । तद्विवद्धयति धर्मेण पालयतीति महाराष्ट्रषिवर्दनः। कर्तरि ल्युट । महांश्चासो रादविवर्द्धनश्चेति वा । पूर्वराज भ्योऽधिक इत्यर्थः । दशरथाख्यो राजा दिवं स्वर्गम्, अमरावती देवपतिर्यथा इन्द्र सतां पुरीम् । तु पूर्वनृपवैलक्षण्येन, आवासयामास स्थापयामास । " हेतुमति च” इति णिच् ॥ ९॥ वैलक्षण्यमेव दशयनयोध्यां वर्णयति सगशेपेण-कवाटेति । तोरणो वहिद्वारालङ्कारदारुवन्धः। प्रशस्तकवाटतोरण युक्ताम् । प्रशंसायाँ मतुप् । सुविभक्तं परस्परासंश्लिष्टम् अन्तरं मध्यप्रदेशा येषां तादृशा आपणाः निपद्याः यस्यां सा ताम् । "आपणस्तुनिपद्यायाम्" इत्यमरः । सर्वाणि सर्वविधानि यन्त्राणि शिलाक्षेपणीप्रभृतीनि, आयुधानि बाणादयः, लोक यानि यानि यन्वायुधानि सन्ति तद्वतीमित्यर्थः । शिल्पिभि श्चित्रकारप्रभृतिभिः उपेतां युक्ताम् ॥ १०॥ सूतेति । सूताः बन्दिनः। “मूतो ना तक्षिण सारथौ । क्षत्राद्विपासुते व्यासशिष्ये पारदबन्दिनोः॥” इति भास्करः । मागधाः राजप्रबोधकाः । “मागधः स्याद्वारग्मी राजप्रबोधकः" इति यादवः । तैः सम्बाधां निरन्तरां श्रीमती धनधान्यसमृद्धिमतीम् अतुल मास वासं कृतवान ॥६-१०॥ सूतेति । सूतमागधसम्बाधाम्-सताः स्तोत्रपाठकाः, मागधाः वंशशंसकाः । शतप्नीनाम-भाकारसंरक्षणार्थ निर्मितो यन्त्रविशेषः ॥११॥
For Private And Personal Use Only