________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भू. ॥५२॥
www.kobatirth.org
יי
वर्णनात् वरण्यशब्दार्थः । आरण्यकाण्डे तेजोमयशरीरवर्णनात् भर्गशब्दार्थः । सुन्दरकाण्डे दिव्यमङ्गलविग्रहलक्षणवर्णनात् देवशब्दार्थः । युद्ध काण्ड धीमहिशब्दार्थः शरणागत्युक्तेः । उत्तरकाण्डे मुक्तिफलकीर्तनानृतीयपादार्थ इति ॥ १५ ॥ एतेन चाधिकारिणा चार्वाक बौद्धादिदर्शना सच्छास्त्रस्पशोऽपि न कार्य इति जाबालिलक्ष्मणवचनतत्प्रत्या देशादिना निर्णयते ॥ १६ ॥ महतामपि व्यसनं भवति, अतः संसारे जिहासा कार्येति वैराग्यसंपत्तये नागपाशत्रह्मास्त्रबन्धसीतापहरणराज्यभ्रंशादिना व्यक्तमुक्तम् । विस्तरस्तु तत्रतत्र प्रदर्शयिष्यते, दिङ्मात्रमत्र प्रदर्शितम् ॥ १७ ॥ लोकव्यवहाराय चतुःपष्टिकलार्थोऽपि संग्रहणात्र प्रतिपाद्यते, "यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्” इति न्यायात् । तथाहि प्रतिपादितया सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १ ॥
दिशा वेदार्थो दर्शितः । हनुमद्वचनश्लाघायां " अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया" इत्यादौ शीक्षार्थः । अश्वमेघादिप्रकरणं कल्पसूत्रार्थः । "नूनं व्याकरणं कृत्स्रमनेन बहुधा श्रुतम् " इत्यादौ व्याकरणार्थः । एवमन्यत्सर्वमत्र सूक्ष्मबुद्धया ज्ञातव्यम् । एवमेतेऽष्टादशार्थी आचार्योपदिष्टाः ॥ १८ ॥ तत्र प्रथमं रावणनिबर्हणफलां गीर्वाणगणशरणागतिं दर्शयितुं पीठिकामारचयति वाजिमेधपर्यन्तवृत्तान्तेन । अग्निपुरुपोत्थानमारभ्य रावण वधपर्यन्तो वृत्तान्तस्तत्फलम् । उत्तरकाण्डे स्वावतारप्रयोजनं धर्मस्थापनं मुक्तिप्रदानं च ॥ ' वक्तव्यमन्यत्तात्पर्य तत्रतत्राभिधीयते । सन्तोऽत्युक्त मनुक्तं च समाधातुमिहार्हथ । नमः शठारिगुरवे नमो वल्मीकजन्मने । नमो नारायणायेदं नमो रामाय विष्णवे ॥'
इत्थं संक्षेपेण आचार्यवान पुरुषो वेद । आचार्याद्वैव विद्या विदिता साधिष्टं प्रापत्" इति श्रुत्युक्तरीत्या आचार्यदेव विद्या प्राप्तव्येत्यमुमर्थमभि व्यञ्जयन् स्वेन नारदाद्विदितमर्थ प्राचीकशत् । अथ सर्गव येणाचार्यप्रसादकार्य सर्ववस्तुसाक्षात्कार स्तद्विषय प्रबन्धनिर्माणचातुर्य चाभिहितम् ॥ अथ परमकारुणिको भगवान वाल्मीकिः रामायणाख्यं काव्यमारभमाणः प्रारिप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थं च "आशी नमस्किया वस्तुनिर्देशो वापि तन्मुखम् ” इत्युक्तरीत्या काव्यमुखत्वेनादौ कर्तव्यं वस्तुनिर्देशं कुर्वन् अर्थाद्विषयप्रयोजने च दर्शयन् कर्तव्यं एवं सर्गचतुष्टयेन उपोदानमुना "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् इत्यालङ्कारिकोक्तेः काव्यमुखे क्रियमाणं वस्तु निर्दिशति सर्वापूर्वमिति । इयं कृत्स्ना वसुन्धरा प्रजापतिं वैवस्वतमनुमुपादाय आरभ्य येषां नृपाणामधीना पूर्वमासीत्, अविद्यमानः पूर्वी यस्मादपूर्व सर्वेषां राज्ञामपूर्वम् । प्रथममिति यावत । मुनिभावप्रकाशिका - रामवाकुवंश्यानां नृपाणां कृत्स्ना इयं वसुन्धरा सर्वापूवं यथा भवति तथा आसीत् । सर्वेषुवाकुवंश्थेषु राजसु अपूर्व नूतनं यथा तथा आसीत् । तत्र सम्मतिः- “ मनु प्रतिभिर्मापैर्मुका यद्यपि राजभिः । तथाप्याययुर्वेव तस्मिन्नासीद्वमुन्धरा ॥ " इति ॥ १ ॥
Acharya Shri Kalassagarsuri Gyanmandir
For Private And Personal Use Only
टी.बा.कां
म० ५