________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
SANSAR
भविष्यामि तव चार्थः प्रकल्पते ॥” इत्यादिना ॥५॥ भरतमुखेन पारतन्त्र्यं प्रकटीकृतम् "विललाप सभामध्ये जगहे च पुरोहितम् । राज्यं चाहं । च रामस्य धर्म वनुमिहाहाँसे ।।" इत्यादिना " सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । नियुज्यमानो भुवि यौवराज्ये ततोऽभ्य पिचदरतं महात्मा ॥” इत्यन्तेन ॥ ६॥ श्रीशउनव्यापारेण भागवतपारतन्त्र्यं प्राचीकात्-"गच्छता मातुलकुलं भरतेन तदानघः । शत्रुनो। नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥” इत्यादिना ॥ ७॥ अस्य चाधिकारिणो ज्ञातव्यमर्थपञ्चकमत्रोच्यते । तथोक्तम्-" प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ॥ वदन्ति सकला वेदाः सेतिहासपुराणकाः। मुनयश्च महात्मानो वेदवेदाङ्गपारगा।" इति । तत्र रामप्रस्तावेन परस्वरूपम्, लक्ष्मणादिवृत्तान्तेन प्रत्यगात्मस्वरूपम्, शरणागतिवर्णनेनोपायस्वरूपम्, विभीषणादिकथया भगवत्कैकय रुपयस्वरूपम्, रावणादिवत्तान्तेन विरोधिस्वरूपं चोक्तमिति ज्ञेयम् ॥८॥ अस्याधिकारिण आकिश्चन्यम अनन्यगतित्वं चापेक्षितमिति वक्त ब्रह्मादेदत्तवरस्य रावणस्य वधेन ब्रह्मरुद्रादिदेवतान्तराणाम्, दशरथचरितेन पितुः, कैकेय्यादि (काकादि) वृत्तान्तेन मात्रादेः, विभीषणमेघनादादि वृत्तान्तन मातृपुत्रादेश्चारक्षकत्वोक्तिः ॥ ९॥ अस्य च भगवज्ज्ञानलाभ आचार्यमूल इति हनुमचरितेन दार्शितम् । तदेव सुन्दरकाण्ड वक्ष्यामः ॥१०॥ अनेन चाधिकारिणा "कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्" इत्युक्तरीत्या शरीरपातावाधिकालः प्रतीक्षणीय इति सीताध्यवसायेनोच्यते ।
शरैस्तु सङ्कलां कृत्वा लङ्कां परवलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥” इति युक्तम् । लङ्कानाम शरीरम्, रावणकुम्भकर्णावह Kारममकारो: इन्द्रजिदादयः कामक्रोधादयः, विभीषणो विवेकः, तत्र रुदा सीता चेतनः, तस्य च भगवज्ज्ञानम् हनुमता आचार्येण, तादृशशरीर
ध्वसपूर्वकं तदन्तनिरुद्धचेतनोद्धरणं भगवतवेति विस्तरो भविष्यति ॥29॥ अस्य च-यावच्छरीरं कर्तव्यविषये रामादिवर्तितव्यम्, न रावणादिया विदित्युपदेशश्च यथायोग कियते ॥ १२॥ अस्य च वासयोग्यो देशो भगवत्सन्निधिमान् देश एवेति कोसलजनपदस्थजनवृत्तान्तेनोक्तम् ॥ १३॥ अस्य च कालक्षेपोऽपि रामायणनेव, दयविवरणरूपत्वात् । अतएव "रामायणं दीर्घशरणागतिः" इत्यभियुक्तरुतम् । "द्वयमांनुसन्धानेन सह सदवं वक्ता" इति च भाष्यकारः । तत्र बालकाण्डेन श्रीमच्छब्दार्थ उक्तः, अयोध्याकाण्डेन नारायणशब्दार्थः, कल्याणगुणानामुपवर्णनात् । आरण्य काण्डेन "तेतं सोमामिवोयन्तम्" इत्यादिना दिव्यमङ्गलविग्रहवर्णनाच्चरणशब्दार्थः। किष्किन्धाकाण्डसुन्दरकाण्डाभ्यां शरणशब्दार्थः । युद्धकाण्डेन प्रपद्य इत्यस्यार्थः उत्तरकाण्डेन मुक्तिफलकीर्तनादुत्तरखण्डार्थः ॥ १४॥ अस्य चाधिकारिणः सदा जप्यं रामायणमेवेति दर्शयितुं गायव्यर्थोऽत्र प्रतिपाद्यते । तथाहि-बालकाण्डे वेदप्रसिद्धजगत्प्रसूतिहेतुभूतभगवत्स्वरूपवर्णनात् तत्सवितशब्दार्थः । अयोध्याकाण्डकिष्किन्धाकाण्डयोःगुणगण
For Private And Personal Use Only