________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.वा.
॥५
॥
Mचारिणः । मङ्गलानि प्रयुआनाः प्रत्यगृहन् दृटवताः॥" इत्युक्तेः। सुग्रीवविभीपणादिप्रपत्तेरपि मुख्यं फलं केयम् अन्यदानुषङ्गिकमिति स्पष्टम्; "अथ
हरिवरनाथः प्राप्य सङ्ग्रामकीर्ति निशिचरपतिमाजी योजयित्वा श्रमेण । गगनमतिविशालं लवयित्वाकसूनुहरिवरगणमध्ये रामपार्श्व जगाम ॥"" परि त्यक्ता मया लङ्का मित्राणि च धनानि च । भवद्गतं मे राज्यं च जीवितं च सुखानि च।" इत्यादिना । एवं प्राणार्थिनः काकस्य प्राणप्रदानेन तत्पपत्तिः सफला । असत्प्रकृतेरस्य पुनरप्येवं दुरितप्रवृत्तिमाभूदिति शिक्षणरूपानुग्रहायेकाक्षिनिरसनेनास्त्रं निवर्तयामास; यथा परशुरामं प्रति प्रयुकगो तस्मिन् प्रातिकूल्यानिवृत्ते तन्मनीषितविरोधिसुकृतेषु प्रायुङ्ग, यथा च समुद्रं प्रत्युपात्तमा तस्मिन् सानुतापे शरणागते द्विषत्सु आश्रिताना पापकृत्यापन शनन्यायेन तद्विरोध्यसुरेषु प्रयुयुजे । रामप्रपत्तिस्त्वाकिञ्चन्यानन्यगतित्वरूपाधिकाररहितेन कृतत्वाइल्पज्ञाल्पशक्तिकविषयत्वाच्च निकलांत यंयम् ।। "समुद्रं राघवो राजा शरणं गन्तुमर्हति" इति विभीषणाक्तिस्तु खप्रपत्तेः फलदर्शनकृता। तस्मादनेन प्रकारेण शरणागतेर्देशकालाधिकारिफलनियमा भावेऽपि विषयनियमोऽस्तीत्युक्तम् । इयं च प्रपत्तिरस्मिन् प्रबन्धे प्रधानतया प्रतिपाद्यते । अतएव "श्रीरामायणं दीर्घशरणागतिः " इत्याभाणकः । तदुपयुक्ततयेतरेषामर्थानां प्रतिपादनम् । तथाहि. समर्थकारुणिकसुशील विषयिणी शरणागतिः फलदायिनी । तत्र रौद्रधनुर्भङ्गपरशुरामजयसालभेदन समुद्रबन्धनादिभिरुक्तपरत्वप्रतिपादनैश्च सामर्थ्य सर्वज्ञत्वादिकं चोक्तम् । सीतावियोगकालिकवृत्तान्तविशेषः परमकारुणिकत्वम्. गुहशवरीसुग्रीवा दिभि रन्ध्रसंश्लषेण सौशील्यम्, विश्वामित्राध्वस्त्राणदण्डकारण्यवासिमुनिजनरक्षणरावणवाधितेन्द्रादिसकलदेवगणपरिपालनैः निजजनपद जनानामात्म सौन्दर्यशीलादिभिः प्रीतिमुत्पाद्य स्वपदप्रातिरूपसाक्षादवतारप्रयोजनभूतमोक्षप्रदानैश्च सर्वरक्षकत्वम्, अतः समर्थपरमकारुणिकसुशीलभगवत्प्रपत्तेः सकलफलसाधनत्वेऽपि अधिकारिविशेषानुष्टितायास्तस्या भगवत्प्राप्तिपूर्वकतन्कै कर्यरूपमोक्ष एव मुख्यं फलम्, आनुपङ्गिक फलान्तरमिति सुस्प एम् । एवं सर्वत्र द्रष्टव्यम् ॥३॥ इयं च प्रपत्तिः पुरुषकारेण विना न फलाय भवतीत्यर्थोऽस्मिन्प्रबन्धे प्रधानतया प्रतिपायते । " सातायाश्चरितं महत्" इति युक्तम् । तस्याश्च विश्लेषत्रयेण कृपापारतन्त्र्यानन्याहत्वरूपपुरुषकारधर्मप्रतिपादनात् । तत्सन्निधानेन काकः शिरो लेभे. तदभावान्न रावणः । विभीषणोऽपि “निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्" इति घटकमुखेनैव रामं शरणमवृणुत । रामोऽपि "आनयनं हरिश्रेष्ठ" इति घटक मुखेनैव विभीषणं विषयाचकार । एवं सुग्रीवोऽपि रामभक्तहनुमन्मुखन रामं शरणं ययो, इत्येवं ज्ञातव्यम् ॥ ४॥ एवम्भूतोपायाधिकारिस्वरूपं शेषत्वं पारतन्त्र्यं च । तत्र शेषत्वं लक्ष्मणाचारेण प्राचीकशत “ अहास्यावरो भ्राता गुणैर्दास्यमुपागतः । कुरुष्व मामनुचरं वैधये नेह विद्यते । कृतार्थोऽहं ।
For Private And Personal Use Only