SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir मकरोत् । अत्र रावणवधाय कृतदेवगणप्रपत्तिफलदानाय निर्गमनात् तदानीं रामस्स्वप्रतिनिधिभूतपादुकाप्रदानेन तत्तफलं कृत्वा पश्चात् देवगणमनो स्थपूरणानन्तरमात्मानमभ्याषिश्चत् अतो न शरणागतिवेफल्यं चोद्यम् । अथ दण्डकारण्यवासिभिविरोधिनिरसनाय शरणागतिरनुष्ठिता, "ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर ॥” इति । अत्र कोसलजनपदवासिनामिव भगवद्विषयवास एवं शरणागतिः। तदनन्तरं “स पित्रा च परित्यक्ता सुरैश्च समहर्षिभिः। त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः। स तं निपतितं भूमौ शरण्यः शरणागतम् । वधाई मपि काकुत्स्थः कृपया पर्यपालयत् ॥” इति काकवृत्तान्तनाग्रतः पतनमेव शरणागतिरित्यदर्शि । तदनु सुग्रीववृत्तान्तेन "कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बहा लक्ष्मणस्य प्रसादनात् ॥” इति शरणागतिरश्नलिरूपोक्ता । अथ सीतावचनेन " मित्रमौपायकं कर्तुं रामः स्थान परीप्सता । वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥ विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥" इत्यनेनानुकूल्यमेव शरणागतिरित्यबोधि । उपरि “सोऽहं परुषितस्तेन दासवञ्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥” इति] विभीषणशरणागत्या विरोधिपरित्यागपूर्वकत्वमुक्तम् । " ततः सागरखेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राइमुखः कृत्वा प्रतिशिश्य महोदधेः॥" इति रामशरणागत्या योग्यस्य नायोग्यतान्वेष्टव्या, अयोग्यस्य च न योग्यतेत्युक्तम् । अशुचिभूतलङ्कानिर्गतमात्र एव हि विभीषणश्शरणमवृणोत् । रामशरणागतः फलाभावः समर्थकारुणिकविषयत्वाभावादित्याहुः । उत्तरत्र “अभियाचाम वैदेहीमेतद्धि मम रोचते। राघवाद्धि भयं घोरं राक्षसाना सुपस्थितम् ॥” इति त्रिजटावचनानुमतिमात्रेण हनुमद्भयात् सर्वासां रक्षितत्वकथनादन्यविषयेऽन्येनापि कृता शरणागतिः फलवतीति निदर्शितम् । विभीषणशरणागर व तत्सचिवानां रक्षणात् शरणागतसम्बन्धिनोऽपि भगवत्कटाक्षपात्रभूता एवेति निरणायि । एवमन्यत्रापि द्रष्टव्यम् । एवमुपक्रम प्रभृत्योपसंहारा प्रतिपादिता शरणागतिरेव सर्वफलप्रदा; सैव मुक्तेरपि हेतुरित्युक्तम् । विशेषस्तु तत्र प्रकरणे प्रपञ्चयिष्यते ॥ २॥ अस्य चोपायस्य प्राप्यं भाल्पानिपूर्वकं तत्कैकयमेवेति रामायणेन प्रतिपाद्यते । तथाहि-उपक्रमे देवजातीयशरणागते रामकैकय प्रधानफलमित्युच्यते, अप्सरःप्रभृ|| तष्ववतीय तैस्तदनुवर्तनोपदेशात् । रावणवधस्त्वानुषङ्गिकः। लक्ष्मणोऽपि प्रपद्याह-"अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते। भवास्तु सह वैदेह्या गिरिसानुषु रम्यते॥"इति । तेन सर्वदेशसर्वकालसर्वावस्थोचितमर्वयफलमिति व्यञ्जितम्।भरतोऽपिरामकैङ्कायैव तदभिषेकं प्रार्थ्य पादुकाविषय कायदामेण मनीषितमलभत । दण्डकारण्यवासिनी शरणागतेरपि वाचिकादिरूपमेव कैयं फलमित्यागम्यते । "ते तं सोममिवोधन्तं दृष्ट्वा वै धर्म For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy