________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥४९॥
यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् । मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ॥” इति। अत्रापरावर्तित्वं टी.बा.का पुनरावृत्तिशुन्यत्वम्, मुक्तिरिति यावत् । “नच पुनरावर्तते” इति श्रुतेः । न च रणादपलायनमुच्यत इति वक्तुं शक्यते, तस्य स्वतःसिद्धत्वेन तत्फल। N
M .५ स्याननुग्राह्यत्वात् । तथा च यज्ञादिफलावधिभूतां मुक्ति प्राप्नुहीत्यर्थः। अतएव नृसिंहपुराणे-“मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मात्त्वं मत्प्रसादेन विष्णुलोकमवाप्स्यसि" इति । एवमुपक्रमादिषडविधतात्पर्यलिङ्गैवेदान्तवेद्यं परतत्त्वं विष्णुरेवेति श्रीरामायणेनोपबृंह्यते । एवमेवान्ते । ब्रह्माप्याह-"अस्याः परिषदो मध्ये यद्वीमि निबोध तत् । एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ॥ सर्व विस्तरतो राजन् व्याख्यास्यति न संशयः। आदिकाव्यमिदं राम त्वयि सर्व प्रतिष्टितम् । न ह्यन्योऽईति काव्यानां यशोभायाघवाहते ॥” इति । एवंस्थिते यत्केनचिन्नवीनेन जल्पितं व्यञ्जनावृत्त्या शिवपरं रामायणमिति तदपहास्यमेव. न ह्यन्योऽहंतीति प्रतिषिद्धदस्य प्रतिपाद्यकोटयन्त ववचनस्य केवलबालिशप्रलपितत्वात् । यच्च रामेणादित्योपस्थानादिकं कृतं तत्सर्व विश्वामित्राद्युपासनवन्मनुष्यभावनानुसारेणेति विज्ञेयम् । विशेषतश्च तत्र तत्र वक्ष्यामः । "श्रीविष्णोः प्रथमे काण्डे जगजननहेतुता । द्वितीये स्थितिहेतुत्वं तृतीये मोक्षदायिता । चतुर्थे गुणसम्पत्तिः पञ्चमे सर्वहन्तृता । पष्टे वेदान्तवेद्यत्वं सप्तमे सहेतुता। एवं विष्णुः परं तत्त्वं रामात्मेति सुनिश्चितम् । श्रीशैलपूर्णाद्यतिशेखरेण श्रुतान् पुराष्टादशधा प्रभिन्नान् । रामायणार्थान क्रमशः करोमि व्यक्ताछ ठारातिगुरुपदिष्टान् ॥” गत एकोऽर्थः ॥ १॥ द्वितीयस्तु-एवम्भूतं परतत्वं केन प्राप्यत इत्याकाङ्क्षायां तत्प्राप्त्युपायभूतां शरणागति “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तर ह देवमात्मबुद्धिप्रसादं मुमुक्षुर्वे शरणमहं प्रपद्ये " इति श्रुतिमुपबृंहयन वाल्मीकिटस्मिन् रामायणे । उपक्रमप्रभृत्युपसंहारान्तमनेकाधिकारिफलविशेषादिप्रदर्शनमुखेनाखिलफलसाधनतया प्रतिपादयति । तथाहि-उपक्रमे तावत् "एतस्मिन्नन्तरे विष्णु रुपयातो महायुतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥” इति सर्वशेपी सर्वेश्वरो रक्षापेक्षाप्रतीक्षा रक्षणसमया लब्ध इति समुद्भतोज्ज्वल्यो। |रक्षणोपकरणेः सह सन्नद्धोऽभ्येत्य तस्थो, तदा “देवगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः" इति रावणवधरूपफलार्थ ब्रह्मरुद्रादिदेवगणशरणा गतिरुक्ता । ततस्त्रिशङ्कुशुन शेफादिवृत्तान्तेषु विश्वामित्रादिव्यापारविशेषानुर्य शरणागतरक्षणं परमो धर्मः समर्थकारुणिकविषया शरणागतिः फलाविनाभूतेति प्रदर्शितम् । ततश्च "स भ्रातुश्चरणों गाढं निपीडय रघुनन्दनः। सीतामुवाचातियशा राघवं च महानतम् ॥” इति पुरुषकारपुर स्करणपुरःसरा शरणागतिः कार्यत्युदीरितम् । ततो भरतः “शेष्ये पुरस्ताच्छालाया यावन्मे न प्रसीदति" इति रामाभिषेकफलाय शरणवरण
For Private And Personal Use Only