________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनेन च ज्ञानानन्दादिसमस्तकल्याणगुणाकरत्वमुक्तम् । सुन्दरकाण्डे "ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रत्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥” इति सर्वसंहर्तृत्वं घोतितम् । उत्तरत्र :" किंवैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः। अनन्तमव्यक्तमचिन्त्यरूपं स्वमायया सांप्रतमागतं वा॥" द्वितीयो वाकारोऽवधारणार्थः। अनेनानन्तरूपत्वमुक्तम् । युद्धकाण्डे-विष्णुरेख कथं जगत्का रणम् ? अन्येषामपि “हिरण्यगर्भस्समवर्तताये” “यदा तमस्तन्त्र दिवा न रात्रिन सन्न चासच्छिव एव केवलः।" "इन्द्रो मायाभिः पुरुरूप ईयते" इत्या दिना तत्त्वश्रवणात इत्याशङ्कय तेभ्यः सर्वेभ्यः श्रेष्ठत्वप्रतिपादनाद्धिरण्यगर्भशिवेन्द्रादिशब्दाःसद्ब्रह्मात्मशब्दवद्विष्णुपरा एवेत्याशयेनोच्यते-"व्यक्तमेष महायोगी परमात्मा सनातनः। अनादिमध्यनिधनो महतः परमो महान् ॥ तमसः परमो धाता शङ्खचक्रगदाधरः। श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः॥” इति । अनेन च परमात्मत्वश्रियःपतित्वादिकमुक्तम् । उत्तरत्र ब्रह्मा-"भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः । एकशृङ्गो वराहस्त्वं भूत भव्यसपत्नजित्॥” इत्यादि । अनेन तस्य नारायणशब्दवाच्यत्वमुक्तम् । अपूर्वता च प्रमाणान्तराप्राप्तिः, न हि परतत्त्वस्य विष्णुत्वं प्रमाणान्तरादनगन्तुं शक्यम् । फलं च भगवत्सालोक्यादिकमित्यन्ते सुव्यक्तम् । अर्थवादोपपत्ती च बालकाण्डे दर्शिते । “इमे द्वे धनुषी श्रेष्ठे" इत्यादिनार्थवादमुक्त्वा "जृम्भितं तद्धनुर्दृष्ट्वा शेवं विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥” इत्यादिना ब्रह्मप्रमुखैस्सर्षिगणैर्देवैर्मीमांसापूर्वकं विष्णुरुदयो मध्ये विष्णोराधिक्यनिर्णयोक्तरुपपत्तिरुक्ता। न च वाच्यम्-"मेनिरे" इति वचनात् “महाशूरतरस्तथा" इति वरदानकृतमिदमाधिक्यमिति । तथात्वे तस्य रोषानुपपत्तेः । “धनू रुदस्य संक्रुद्धः" इति युक्तम् । किं चागस्त्याश्रमे “स तब ब्रह्मणः स्थानं विष्णोःस्थानं तथैव च । अनेः स्थानं महे न्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥" इत्यादिना ब्रह्मादीनाम् अगस्त्योपास्यत्वमुक्त्वा रुद्रस्य तदकथनादपूज्यत्व मुच्यते । न चेमान्यगस्त्यपूजकब्रह्मादिस्थानानीति वाच्यम्, असम्भवात् । “अब देवाः सगन्धर्वास्सिद्धाश्च परमर्षयः । अगस्त्यं नियताहारं सततं पर्युपासते ॥” इति वचनं ब्रह्मादिव्यतिरिक्तकेवलदेवविषयम् । किञ्च यथा गृहस्थस्य गृहे देवगृहसत्त्वे गृहस्थस्यैव पूजकत्वं स्वरसतःप्रतीयते, एव मेवात्रापि नापलापावकाशः। किञ्च दक्षयज्ञवधे-“यस्मादागार्थिनो भागः कल्पितो नैव मे सुराः । वराङ्गानि महाहाणि धनुषा शातयामि वः ॥" इति रुद्रस्य यज्ञभागाकल्पनादपूज्यत्वादव तस्य स्थानानिर्देशः । ननु यदि विष्णुः परा देवता कथं तर्हि तस्य रामत्वेन जन्म ? इति चेन्नः "अजा यमानो बहुधा विजायते" इत्युक्तरीत्या लोकानुजिघृक्षाकृतं तदिति चोद्यानवकाशात् । मोक्षप्रदत्वं च परदेवतासाधारणम् । अत्रोच्यते-" या गति
For Private And Personal Use Only