________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भ.
YEAN
प्रकाश्यत" इति वचनात् । तत्र “ यतो वा इमानि भूतानि जायन्त यन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तनिजिज्ञासा तद्ब्रह्म " इति , टी.बा.का. श्रुतम् । तत्किं जगजन्मादिकारणं ब्रह्म विष्णुः उत ब्रह्मरुद्रादिप्वन्यतमः ? इत्यपेक्षायां रामत्वेनावतीणों विष्णुरेव वेदान्तवयं परब्रह्मेत्युच्यते। "उपकमो म.. पसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ "इन्युक्तपडविधतात्पर्यलिङ्गसम्भवात् । तथाहि, उपक्रमे तावत् “ को। वम्मिन्" इत्यादिना वेदान्तोदितसकलगुणसम्पन्नः किं विष्णुरुतान्यो ब्रह्मादिप्वन्यतम इति वाल्मीकिना पृष्ट “ इक्ष्वाकुवंशप्रभवो रामः" इन्या दिना रामत्वेनावतीणों विष्णुरेवेति नारदेनोक्तम् । उपसंहारे च चतुमुखः प्राह-" तबाह पूर्वक भावे पुत्रः परपुरचय। संक्षिप्य च पुरा लोकान् । मायया स्वयमेव हि ॥ महार्णवे शयानोऽप्सु म. त्वं पूर्वमजीजनः । पद्मे दिव्य कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कम मयि सर्व निवेशितम् ॥” इत्यादिना सर्वजगत्कारणप्रजापतिजनकत्वेन सकलजगत्कारणं ब्रह्म विष्णुवेत्युक्तम् । अभ्यासश्च तस्यैव दृश्यते । बालकाण्डे"एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥” इति जगत्कारणत्वमुक्तम् । तत उत्तरत्र देवाः-"वं गतिः परमा देव सर्वेषां नः परंतप ।" इत्याहुः, तेन परत्वासाधारणं सर्वशरण्यत्तमुक्तम् । तत उत्तरत्र-“ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।। स्तुतिभिार्दव्यरूपाभिस्तुष्टुवुमधुसूदनम् ।।" इति सर्वस्तुत्यत्वमुक्तम् । ततो विश्वामित्र:-"अहं बेमि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥” इति । “वेदाहमतं पुरुपं महान्तम् । तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञन दानन तपसानाशकेन" इति श्रुत्युक्तरीत्या महापुरुषत्वं तपोबलं विना तस्य दुर्जेयत्वं चाह । सीताविवाहे वसिष्ठोऽपि-" अव्यक्तप्रभवा ब्रह्मा शाश्वतो नित्य अव्ययः ।। तस्मान्मरीचिः सञज्ञे मरीचेः काश्यपः सुतः ॥” इति सर्वमूलकारणत्वं प्राचीकशत् । परशुरामोऽपि "अधिकं मेनिर विष्णुं देवाः सपिंगणास्तदा ॥"| इति सर्वाधिकत्वं निदातिवान् । अयोध्याकाण्डे-“स हि देवरुदीर्णस्य रावणस्य वधाथिभिः । आर्थिती मानुपे लोके जज्ञ विष्णुः सनातनः॥" इति सनातनत्वमुक्तम् । उत्तरत्र “आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।" इत्याकाशशब्दन स्वयंप्रकाशत्वं व्यापकत्वं चाह । आरण्य | काण्डे मारीचेन-"अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इति परिच्छेदातीतमहिमत्त्वमुक्तम् । किष्किन्धाकाण्ड तारावचनम्-"त्वम प्रमेयश्च दुरासदश्च नितेन्द्रियश्चोत्तमधार्मिकश्च । अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान क्षतजोपमाक्षः ॥ निवासवृक्षः साधूनामापन्नानां परा।। गतिः। आत्तीनां संश्रयश्चैव यशसश्चैकभाजनम् ॥ ज्ञानविज्ञानसंपन्ना निदेश निस्तः पितुः । धातूनामिव शैलेन्द्रो गुणानामाकरा महान् ॥” इति ।
For Private And Personal Use Only