________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मार्गविधानसंपदा-देशी मार्गश्चेति द्वौ गानप्रकारो । तत्र मार्गः सार्वत्रिकः. देशी क्वाचित्कः । तयोर्मध्ये मार्गनिर्वाहसामय्या अगायताम् । स रामोऽपि शनैः परिषद्गतः झटित्युत्थाय गमने परिषदोऽप्युत्थानासभङ्गो भविष्यतीति मन्दमन्दं सिंहासनादवतीर्य परिषदं प्राप्तः । “एकः स्वादु न भुञ्जीत" इति न्यायादुन्नतसिंहासनावस्थानेन स्वात्मानमेकाकिनं मन्यमानः सभामध्यगतः। बुभूपया अनुबुभूषया, श्रोत्रसुखानुभवेच्छयेत्यर्थः । यद्वा । Mबुभूपया भवितुमिच्छया, कान्ताकथाश्रवणेन स्वसत्तालाभेच्छयेत्यर्थः । सक्तमनाः गानश्रवणासक्तचित्तः बभूव ह । स्वशिष्योक्तप्रबन्धश्रवणे
रामः स्वयमेव सादरं प्रसक्त इति मुनिस्तुष्यति । अत्र श्लोकद्धये वंशस्थवृत्तम् । “जतौ तु वंशस्थमुदीरितं जरौ " इति लक्षणात् ॥ ३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुर्थः सर्गः ॥४॥ - इदं च तपःस्वाध्यायेत्यारभ्य सर्गचतुष्टयं महत्परिग्रहसिद्धये उक्तलक्षण्यत्रयप्रतिपादनपरत्वेन प्रबन्धोपोहातत्वात् श्रीरामायणान्तर्गतं कथा शरीरानुप्रविष्टप्रस्तावनाग्रन्थवत् । ननु रामायणनिर्माणानन्तरभाविनः कथाशरीरस्यास्य कथं तत्पूर्वभावः ? इति चेत् न, अनन्तरभावित्वेऽपि त्रिकालज्ञेन महार्पणा प्रथम तन्निर्माणसम्भवात् । नन्वात्मप्रशंसापरमिदं सर्गत्रयं कथमृषिः स्वयमेष वक्तुमर्हति ? इति चेत् न; अन्यापरिज्ञातस्यैतस्य वृत्तान्तस्य प्रेक्षावत्प्रवृत्त्यर्थमादाववश्यं वक्तव्यत्वात् । यद्वा सर्गत्रयनिदं केनचित् वाल्मीकिशिष्येण रामायणनिवृत्त्यनन्तरं निर्माय वैभवप्रकटनाय सङ्गमितम् यथा याज्ञवल्क्यस्मृत्यादौ तथैव तत्र विज्ञानेश्वरेण व्याकृतम् । नन्वेतस्य सर्गत्रयस्य रामायणादित्वे कुशलवाभ्यां एतद्गाने प्रथम । कियमाणे तौ रामेणादावेव स्वपुत्राविति परिज्ञातौ स्याताम्, तथा च तदैव सीतानयनापत्तिः । “ बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ । तो राजपुत्रौ” इत्यादिना हि रामपुत्रत्वमनयोः सूच्यते । तस्मादिदमसङ्गतमिति चेन्न; सीतापुत्रत्वादेरवाकथनात् । रामसादृश्यमात्रस्य राजपुत्रान्तरे। प्वपि संभवात् । अयं च प्रबन्धो वेदोपबृंहणरूपो वेदान्तार्थमुपवृहयति । “प्रायेण पूर्वभागार्थो धर्मशास्त्रेण कथ्यते । इतिहासपुराणाभ्यां वेदान्तार्थः ।
इति । मार्गविधानसम्पदा, मार्गश्च देशी चेति गानप्रकारों द्वौ । तत्र मार्गस्सार्वत्रिकः, देशी काचित्कः देशविशेषनरपेक्ष्येण शास्त्रप्रतिपादितो मार्गम्सार्व। JAMविकरागप्रकारः । तयोर्मध्ये मार्गनिर्वाहसामन्या अगायनाम् । स रामः बुभूषया श्रवणानन्दानुभवेच्छया आसक्तमना बभूवेत्यर्थः ॥ ३१ ॥ दति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां चालकाण्डव्याख्यायां चतुर्थः सर्गः ॥४॥
विषम-प्राकृतावलम्बि गाने देशी, संस्कृतावलम्बि तु मार्गः । स्वयं श्रवणे चोत्तरोत्तर लोकानामुपदेशउबुद्धया श्रवणे प्रवृत्तौ तस्य स्थिरत्वं भवतीति तदाशयः ॥ ३१ ॥
For Private And Personal Use Only