________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रिभिर्भ्रातृभिश्व उपोपविष्टः परिवृत इत्यर्थः । “प्रसमुपोदः पादपूरणे " इति द्विरुक्तिः । परं शत्रुं तापयतीति परन्तपः । “द्विषत्परयोस्तापेः” इति। खच् । “ खचि ह्रस्वः " इत्युपधाहस्वः । “अरुर्द्विषदजन्तस्य मुम्" इति मुमागमः । अनेन व्यासङ्गरहितत्वं सूचितम् । नियतः अश्वमेघे दीक्षितः स रामः रूपसम्पन्नौ भ्रातरौ दृष्ट्वा लक्ष्मणादीनुवाच ॥२६॥ २६ ॥ श्रयतामिति । देववर्चसोः देवतुल्यतेजसोः, रूपसम्पत्तिरपि गीतिरस्यतासामग्रीति भावः । अनयोः कुशीलवयोः सम्बन्धि विचित्रार्थपदम् । इदमाख्यानं श्रुश्रूयतामित्युक्त्वेत्युपस्कार्यम् । सम्यग्गायिनौ तावचोदयत्, गानाय प्रेरयामासेत्यर्थः ||२७|| ताविति । सर्वाणि क्रियाविशेषणानि। मधुरं पाठतो गानतश्च मनोहरम्। रक्तं रागवत् । स्वञ्चितः सुतरां पूजितः आयतो दीर्घः निरुवन आलापो यस्मिन् ।। तन्त्रीलयवत् तन्त्र्यारोपलयाभ्यां युक्तमत्यर्थं भृशं विश्रुतार्थं विस्पष्टार्थम् ॥ २८ ॥ ह्रादयदिति । सर्वगात्राणि सर्वावयवान् हृदयानि गात्रान्तरवर्तीनि दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा । उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥ २६ ॥ श्रूयतामिदमाख्यान मनयोर्देववर्चसोः । विचित्रार्थपदं सम्यगायिनां तावचोदयत् ॥ २७ ॥ तौ चापि मधुरं रक्तं स्वचितायतनिः स्वनम् । तन्त्रलयवदत्यर्थं विश्रुतार्थमगायताम् ॥ २८ ॥ वादयत् सर्वगात्राणि मनांसि हृदयानि च । श्रोत्राश्रय सुखं गेयं तद्बभौ जनसंसदि ॥ २९ ॥ इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ । ममापि तद् भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत ॥ ३० ॥
मनोधिष्ठानानि मनांसि च द्वादयत् सुखयत् । श्रोत्राश्रयसुखम् - श्रोत्रं कर्णशष्कुली, तदाश्रयं श्रोत्रेन्द्रियं तत्सुखं तत्सुखकरम् । तत्कुशलवकृतं गेयं गानम् । भावे यत् । जनसंसदि सभायाम् । जनशब्दो मण्डपव्यावृत्त्यर्थः । बभौ प्रचकाशे, अजृम्भतेत्यर्थः ॥ २९ ॥ उक्तमेवार्थी वृत्तान्तरेण सर्गान्ते संगृह्णाति - इमावित्यादिश्लोकद्वयेन । इमौ मुनिवेधावपि पार्थिवलक्षणान्वितौ । कुशीलवावपि गायकावपि महातपस्विनौ महान्तौ तपस्विनौ भवतः । तत्तस्मात् ममापि प्रियाविरहकृशस्यापि, भूतिकरं श्रेयस्करम् धारकमित्यर्थः । महाननुभावो यस्य तत् महानुभावं चरितम् सीताचरित्रमित्यर्थः । प्रवक्ष्यते पदं विचित्रा अर्थाः पदानि च यस्मिन् तत् इदमाख्यानं श्रूयतामित्युवाच । माथको कुशलबों च समचोदयत् । गायनामिति शेषः ॥ २५-२७॥ ताविति । म्वचित्ता पतनिस्वनं स्वेच्छानुरूपस्वरायामं, विश्रुतार्थं प्रसिद्धार्थम् ॥ २८ ॥ यदिति । मनसोऽधिष्ठानं हृदयम् । श्रोत्राश्रयखं श्रोत्रेन्द्रियसुखम् ॥ २९ ॥ महता प्र
१ गायकी समचोदयन् । २ स्वचित्तायत
इति पाठान्तरम् ॥
For Private And Personal Use Only