________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
गातृप्रशंसाप्रकारमाह-प्रविश्येति । सहितौ समलयादियुक्तावित्यथः । तावुभौ कुशीलवौ । तदा मुनिजनश्रवणकाले, भावं सुष्ठ प्रविश्य, रति हासादिभावो यथा प्रकाशितो भवति तथावगाथेत्यर्थः । स्वरसम्पदा पड़नादिस्वरसम्पदा सम्पन्नम् अतएव मधुरं रमणीयं रक्तं रागयुक्तं च यथा भवति तथा अगायताम् ॥ १८ ॥ प्रशंसाजनितोत्साहो पुनरतिशयेनागायतामित्याह-एवमिति । तपःलाध्यैः श्लाध्यतपस्कैः, अनसूयकैरिति यावत् । महात्मभिः महाबुद्धिभिः, विशेषज्ञैरिति भावः । तादृशैरेवमुक्तरीत्या प्रशस्यमानौ श्लाघ्यमानौ तौ संरक्ततरम् अतिशयेन समीचीनरागयुक्तम्
प्रविश्य तावुभौ सुष्टुतदाभावमगायताम् । सहितौ मधुरं रक्तं सम्पन्न स्वरसम्पदा ॥ १८॥ एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः । संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ १९ ॥ प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ । प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः ॥२०॥
आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् । परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥२१॥ अत्यर्थ भृशं मधुरं च यथा भवति तथा तावगायताम् । क्रियाभेदात्तच्छन्दावृत्तिः ॥ १९॥ अथ प्रीतिकारितयथोचितपारितोपिकप्रदानमाह-प्रीत इति । संस्थितः उत्थितः । “संस्था स्थितौ व्यवस्थायाम्" इति भास्करः । कलशं जलाहरणपात्रम्, प्रीत्यतिशयेनोत्थाय ददावित्यर्थः । महायशाः गानशास्त्रविषयकीर्तिमान्, गीतितारतम्यज्ञ इत्यर्थः ॥ २० ॥ एवं मुनिजनप्रशंसामुक्त्वा तदितरसकलजनप्रशंसामाह-आश्चर्यमित्यादिना, श्लोक ऋषिकृतप्रशंसानन्तरं पुनस्तयोर्गानप्रकारमाह-प्रविश्येति । भावं प्रविश्य सुगायतामिति सम्बन्धः । भावपुरस्कारेण काव्यकर्तुरभिप्रायं हृदि निधाप शृङ्गारादिरसा विर्भावो यथा भवति तथा अगायतामित्यर्थः। मधुरं पाठतोगानतश्व, अत एवरक्तं रखनं स्वरसंपदा॥१८ एवमिति । एवमुक्तप्रकारेण तैर्मुनिभिः प्रशस्यमानौ तौसंरक्क तर समीचीनरागयुक्तम् अगायतामिति सम्बन्धः ॥ १९ ॥ श्रीरामायणश्रवणजनितानन्दानुभवपरवशाना मुनीनां चेष्टामाह-प्रीत इति । संस्थिता-उत्थितः ॥२०॥ आश्चर्यमिति । आश्चर्यमित्यादिश्लोकत्रयमेकं वाक्यम् । कवीनामाधारमालम्बनभूतम् यथाक्रमं समाप्तं समाहितम् अभिगीतम् । अभिः पूजार्थे । आयुष्यमायुष्करम् ,
१ महायशाः । अन्यः कृष्णाजिनं पादापासूत्रमधापरः । कमिकमण्डलु प्रादान्मौलीमन्यो महामुनिः ।। वसीमन्यस्तदा पादाकोपीनमपरो मुनिः । ताभ्यां ददौ तदा हाः कुठारमपरी मुनिः ।। काषायमपरो वश्वं चीरमन्यो ददौ मुनिः । जटाबन्धनमन्यस्तु काष्ठरजु मुदान्वितः ।। यत्रभाण्डमृपिः कश्चित्वाप्ठभारं तथापरः । औदुम्बरी बृसीमन्ये स्वस्ति केचित्तदावदन् । आयुष्यमपरे प्राहुर्मुदा वत्र महर्षयः । इदुश्चैव परान् सर्वे मुनयः सत्यवादिनः । इत्यधिकः पाठः ।।
For Private And Personal Use Only