________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ.पवित्यर्थः। तौ कुशलयो कात्स्न्येन धर्म्य धर्मादनपेतम् उत्तममाख्यानं पुरावृत्तकथनरूपं तद्रामायणाख्यं सर्व काव्यं वाचोविधेयम् आवृत्तिबाहुल्येन टी.बा.को ॥४५॥
वाग्वशवर्ति कृत्वा, ऋषीणां च साधूनां द्विजातीनां च समागमे सदसि जगतुः ॥ १२॥ १३॥ अथ तस्य काव्यस्य महाजनपरिगृहीतत्वं दर्शस० ४ यितुमाह-तावित्यादि । तो कुशलवौ कदाचित् रामाश्वमेधकाले । भावितात्मनां निश्चितधियाम् । समेतानाम् अश्वमेधे संमिलितानाम् । आसी नानां क्रियाकलापावसाने सुखमासीनानाम् ऋषीणां समीपस्थौ सन्तौ इदं काव्यमगायताम् ॥ १४ ॥ सामान्यतः काव्यप्रशंसामाह-तदिति ।। तत्काव्यं श्रुत्वा परं विस्मयमागताः बाष्पपर्याकुलेक्षणाः सर्वे मुनयस्तो साधु साध्विति ऊचुः, प्रशशंसुरित्यर्थः ॥ १५ ॥ गातृप्रशंसामाह-त इति ।
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् । आसीनानां समीपस्थाविदं काव्यमगायताम् ॥ १४॥ तच्छ्रुत्वा मुनयः सर्वे बाप्पपर्याकुलेक्षणाः । साधुसाध्विति तावूचुः परं विस्मयमागताः ॥ १५ ॥ ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः। प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ १६ ॥
अहो गीतस्य माधुर्य श्लोकानां च विशेषतः । चिरनिवृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ॥ १७ ॥ धर्मवत्सलाः, निमत्सरा इत्यर्थः । ते सर्वे मुनयः प्रीतमनसः सन्तः गायमानौ अत एव प्रशस्तव्यो प्रशंसितुमही कुशलवो प्रशशंसुः ॥ १६॥ काव्यप्रशंसाप्रकारमाह-अहो इति । गीतस्य गानस्य माधुर्यमहो आश्चर्यम् । श्लोकानां तु माधुर्य विशेषतः अहो आश्चर्यम्, गानतोऽपि श्लोकमाधुर्यम् अतिशयितमित्यर्थः । तमेव विशेषमाह चिरेति । एतत्काव्यप्रतिपाद्यं कथाशरीरं चिरनिर्वृत्तमपि बहुकालानिष्पन्नमपि, प्रत्यक्षमिव प्रत्यक्षतयानुभूय मानमिव, दर्शितम् अनेन काव्येन बोधितम् । पाकविशेषात्सद्यः सर्वार्थ विशदतरमवगमयतीदं काव्यमित्यर्थः ॥१७॥ सार्धशोकमेकं वाक्यम् । सुसमाहिती तो काव्यं वाचोविधयं वाग्वशं कृत्वा एतदगायतामिति सम्बन्धः । सुसमाहिती तो राजपुत्रौ तब स्वेच्छया अगायता मित्यर्थः ॥ १२ ॥ १३॥ अथ कदाचिद्वाल्मीकिनियोगात रामयज्ञवाटगतषिसभादिषु ताभ्यां कृतगानप्रकारमाह-तो कदाचिदिति । तौ कदाचित रामाश्वमेध काले भावितात्मना शुद्धचित्तानाम् ॥ १४ ॥ तदिनि । तत गानम् ॥ १५ ॥ २६ ॥ अहो इति । चिरनिर्वृत्तमपि चिरातीतमपि ॥१७॥
चा
T
For Private And Personal Use Only