________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तद्विषयसमीचीन ज्ञानयुक्तौ, एतेन गानशास्त्रज्ञानतदनुगुणवीणादिवादनतदनुगुणोच्चारणनिपुणाविति दर्शितम् । भ्रातरावित्यनेन श्राव्यताहेतुसमस्वरत्व मुक्तम् । स्वरसम्पन्नौ शारीर संयुक्त, अतएव रूपिणो मनुष्यवेषधारिणौ गन्धर्वाविव स्थितौ । रूपलक्षणसम्पन्नौ नाटकलक्षणज्ञौ । गत्यर्था ज्ञानार्थाः । रूपं स्वभावे शुकादो सौन्दर्य नाटके पशौ" इति भास्करः । गानकालिकाभिनयप्रकारज्ञावित्यर्थः । मधुरवरं यथा भवति तथा भाषितुं शीलमनयोरिति । मधुरस्वरभाषिणी । ताच्छील्ये णिनिः । केवलभाषणकालेऽपि मधुरस्वरौ, किमुत गानकाल इति भावः । उक्तसकलगुणसम्पत्तिमूलं रामपुत्रत्वमार विम्बादिति । राम देहरूपात् विम्बात् तथा उत्थितौ उद्धृतौ बिम्बो प्रतिविम्बाविव स्थितौ । यद्वा प्रतिमा निर्माणार्थे चातुर्येण निर्मिता प्रतिकृतिर्विम्बः, रामदेहाख्यात तस्मात् तथा उत्थितौ उत्कीर्णो अपरौ विम्बाविव स्थितो। “प्रतिबिम्बे तत्कृतौ च प्रतिकृत्यां च मण्डले । लाञ्छनेऽपि च बिम्बोऽस्त्री " रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । विम्वादिवोत्थितौ विम्बौ रामदेहात्तथापरौ ॥ ११ ॥ तौ राजपुत्रौ कात्स्न्र्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥ ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ । महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ॥ १३ ॥
इति भास्करः । एवम्भूतौ । कुशलवावेतत्काव्यमगायतामिति सम्बन्धः ॥ १० ॥ ११ ॥ न केवलं तस्याध्ययनं धारणं प्रकाशनं च कृतमित्याह-तावि त्यादि सार्द्ध श्लोकद्वयमेकान्वयम् । क्रियाभेदात्तच्छन्दावृत्तिः । यद्वा राजपुत्रौ सन्तौ तौ मुनिपुत्रौ मुनिपुत्रवेषधरावित्यर्थः । अनिन्दितौ यथोपदेशं गानेन निन्दा नहीं । यथोपदेशं गुरूपदेशमनतिक्रम्य तत्त्वज्ञौ पाठशुद्धिज्ञौ समाहितौ सावधानौ, कुत्राप्यंशे विस्मृतिरहितावित्यर्थः । महात्मानो महाबुद्धी । महाभागौ एतादृशगुणहेतुभूतमहाभाग्यौ । “ भागा भाग्यशतुल्यांशाः " इति वैजयन्ती । सर्वलक्षणलक्षितौ लक्षितसर्वलक्षणौ, ज्ञातरार्वशब्दलक्षणा च्चयः । तदाह दत्तिल:- “पदस्थस्वरसङ्घातस्तालेन समितस्तथा । प्रयुक्तश्वावधानेन गान्धर्वमभिधीयते ॥ " इति । मूर्च्छनास्थानकोविदाविति - मूर्च्छना षड्जादि स्वरसंपूर्णता । तदुक्तं शाण्डिल्येन " यत्रैव सुस्वराः पूर्णा मूर्च्छना सेत्युदाहृता । " इति । स्थानम् ध्वनिविशेषोत्पत्तिस्थानम्, “उरः कण्ठः शिरश्चेति तत्पुनखि विधं भवेत् । मन्द्रं मध्यं च तारं च नाम तेषां यथाक्रमम् ॥ " इति । विम्बादिवेति । प्रतिमानिर्माणार्थ चातुर्येण निर्मिताकारविशेषो विम्बः तस्माद्रामदेहाद् विम्बात् रामदेहाख्याद्विम्बात् उत्थितावुत्कीर्णौ अपरौ विम्बाविव आकृतिविशेषाविव स्थितो। अगायतां जगतुः, अभ्यासं चक्रतुः ॥ १० ॥ ११ ॥ तौ राजपुत्राविति
For Private And Personal Use Only