________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुक्तम्, तस्यैवोपपादकं रामायणमिति कल्लस्य सीताचरितत्वेऽपि रामायणव्यपदेशः रामचरितस्य तदुपयुक्तार्थत्वज्ञापनार्थः । रमाया इदं चरितं रामम्, तस्यायनमिति वा व्युत्पत्तिः। रामशब्दस्य लक्ष्मीपत्यादिशब्दवत्स्त्रीपुरःसरनिर्देशः प्रबन्धस्य लक्ष्मीप्राधान्यज्ञापनार्थः, तेन सीतायाश्वरितमिति सुष्टुतम् । हारिद्रमाक्षिकादिशब्दवणू प्रत्ययोपपनि टव्या । " हारिद्रभङ्गाय वितीर्णभङ्गम् " इति श्रीहर्षः । महत नारायणकथाव्यपेक्षया महत्, सापराधेष्वपि रक्षणप्रवणत्वप्रतिपादनान्महत्त्वम् । " मातमैथिलि राक्षसी स्त्वयि तदैवार्द्रापराधास्त्वया रक्षन्त्या पवनात्मजालघुतरा रामस्य गोष्टी कता । काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतस्सा नः सान्द्रमहागसः सुखयतु क्षान्तिस्तवा कस्मिकी॥" इत्यभियुक्तोः । अनेन शरणागतिमन्त्रोपबृंहणत्वमस्य प्रबन्धस्य व्यञ्जितम् । अष्टाक्षरोप बृंहक श्रीभागवतादिषु हि भगवत्प्राधान्यम्, अतएव “नारायणकथा | मिमाम्" इति तत्रोक्तम् ॥ ७॥ यथोपदेशमगायतामित्याह-पाठ्येत्यादि श्लोकद्वयेन । पाठ्यं पाठः । भावे ण्यत् । केवलोच्चारणविशेषः। तदुक्तं भरतेन- "पडलङ्कार
पाये गये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्वद्धं तन्त्रीलयसमन्वितम् ॥ ८ ॥ रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः । रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् ॥ ९ ॥
Acharya Shri Kalassagarsuri Gyanmandir
संयुक्तं कलाकालसमन्वितम् । यत्पठ्यते नाटकादौ तत्पाठ्यमभिधीयते ॥” इति । गेयं स्वरविशेषसमन्वितं गानम् । भावे यत् । तत्रोभयत्र । मधुरं श्राव्यम्, लोके कानिचित् पद्यानि पाठदशायां मधुराणि न गानदशायाम् । अपराणि पुनर्गानदशायामेव न पाठदशायाम्, इदं तूभयत्रापीत्यर्थः । इतः परं त्रीणि क्रियाविशेषणानि । त्रिभिः प्रमाणैर्गानध्वनि परिच्छेद केः व्यश्रचतुरश्र मिश्रसंज्ञिकैः द्रुतमध्यविलम्बितैर्वान्वितं विशिष्टम् । सप्तभिर्जातिभि बद्धं शुद्धविकृत सङ्कीर्णादिष्वष्टादशसु जातिषु प्रधानभूताभिः सप्तभिर्बद्धम् । तदुक्तं शाण्डिल्येन - " सर्वगीतसमाधारो जातिरित्यभिधीयते । पाइजी चैवाथ नेपादी धैवती पाञ्चमी तथा माध्यमी चैव गान्धारी सप्तमी स्वार्षभी मता । " इति । तन्त्रीलयसमन्वितम् तन्त्रीशब्देन तन्त्रीयुक्तवीणा लक्ष्यते, लयशब्देन तालवेणुमृदङ्गादीनामेककालविराम उच्यते, ताभ्यां समन्वितम् ॥ ८ ॥ पुनः काव्यविशेषणमाह - रसैरिति । आदिशब्देन बीभत्साद्भुत शान्ता गृह्यन्ते । रसो नाम स्थायीभावरूपचित्तवृत्त्यभिव्यक्तिः । स्थायीभावश्च नवविधः । तदुक्तम्- " रतिसव शोकश्व क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायीभावाः प्रकीर्तिताः ॥ " इति । तदभिव्यक्तिव विभावादिभिः । तदुक्तम्- “ विभावैरनुभावैश्व सात्त्विकैर्व्यभि पाठ्ये गेये चेत्यारभ्य रामदेहात्तथा परावित्यन्तं कुलकम् । पाठ्ये गेये च मधुरम्- पाठ्यं स्वरूपोच्चारणमात्रम्, गेयं स्वरविशेषसमन्वितं गानम्, प्रमाणैस्त्रिभिरन्वितम्
For Private And Personal Use Only