________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥४३॥
वरः " इत्यापनिर्वचनात् । यद्वा रमन्तेऽस्मिन् सर्वे जना इति रामः। "अकर्तरि च कारके संज्ञायाम् " इति पश् । सः अय्यते प्रतिपाद्यते अनेनेति रामायणम् “अय गतौ” इति धातोः कर्मणि ल्युट् । “पूर्वपदात् संज्ञायामगः" इति णत्वम् । समस्तगुणसंपन्नरामविषयत्वावास्य निषिद्धत्वम्, किन्तूपादेयत्वमेवेत्यर्थः । तदुक्तं भामहेन-"उपश्लोक्यस्य माहात्म्यादुत्तमाः काव्यसम्पदः" इति । प्रतिपादितं चोद्भटेन-" गुणा लङ्कारचारुत्वयुक्तमप्यधिकोवलम् । काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः॥” इति । रुद्रटेनाप्युक्तम्-"उदारचरितनिबन्धनात प्रबन्धप्रतिष्ठा" इति । निषेधस्त्वसत्काव्यविषय इति भावः । इदं च रामचरितप्रतिपादनमप्राधान्येन, प्राधान्येन तु सीताचरितमेव प्रतिपाद्यत इत्याह कृत्स्नं सीतायाश्चरित मिति। कृत्स्नं रामायणं सीताचरितपरम् । अत एवोक्तं श्रीगुणरत्नकोशे-"श्रीमद्रामायणमपि परं प्राणिति त्वचरित्रे" इति । आभाणकश्च-"प्रातर्दूत प्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः। रात्रौ चोरप्रसङ्गेन कालो गच्छति धीमताम् ॥” इति । उपायपुरुषकारयोर्मध्ये उपायस्वरूपं भारते दर्शितम्, पुरुषकार स्वरूपं श्रीरामायणे इति रहस्यपदवी । अतएव "कृपावानविकत्थनः" इत्याधुक्तलक्षणधीरोदात्तरूपो रामः कुशलवाभ्यां रामायणं श्रुतवान् । रामा शायणस्य रामैकपरत्वे स्वेनैव सदसि श्रवणं न सङ्गच्छते, सीतापरत्वे तु संगच्छते; विरहिणः कामिनीकथा(चरित)श्रवणस्य स्वाभाव्यात् । एवं व्यञ्जना दृ या सीतारामयोः प्रतिपादनमुक्त्वा शब्दवृत्त्या सिद्धमितिवृत्तमाह पौलस्त्यति । पुलस्त्यस्य गोत्रापत्यं पौलस्त्यः । गर्गादित्वाद्यम् । तस्य वधः, "परस फलत्वात्तेन व्यपदेशः। पौलस्त्यवधमधिकृत्य कृतो ग्रन्थः पौलस्त्यवधः। “अधिकृत्य कृते ग्रन्थे" इत्यण् । “ लुबाख्यायिकाभ्यः प्रत्य स्प बहुलम्" इति तस्य लुप । यद्वाऽणि पुनरादिवृद्धौ तदेव रूपम् । वधप्रधानत्वादितिवृत्तस्य फलेन व्यपदेशः। तथाहि-पञ्च काव्यप्रतिपाद्यानि। दुक्तम्-"बीजबिन्दुपताकाख्याः प्रकरीकार्यमित्यपि । अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः॥" इति । "आरम्भयत्रप्राप्त्याशानियताप्तिः फलागमः" इन पञ्चावस्थाः । तत्र “स्वल्पादिष्टः कार्यहेतुर्बीजं विस्तार्यते तथा।" तच्च बालकाण्डोक्तं विष्ण्ववतरणसीतापरिणयादि। "वस्तुनः सति विच्छेदे| बिन्दुरच्छेदकारणम्” इति । यथा अयोध्याकाण्डे अभिषेकवृत्तान्तेन रावणवधरूपकार्यविच्छेदे प्राप्ते वनवासकरणमच्छेदकारणम् । “यदन्तरानुवृत्तं स्यात्सा पताकेति कीर्त्यते ।" यथा सुग्रीववृत्तान्तः। "कथान्तरप्रसङ्गेन प्रकरी स्यात् प्रदेशभाक" यथा विभीषणादिवृत्तान्तः। “समग्रफलसम्पत्तिः फलयोगो यथोचितः।" यथा रावणवधः । एवंफलत्वात्पौलस्त्यवधमिति निर्देशः। इत्येवेत्यस्यायमर्थः-पौलस्त्यवधव्याजेनाप्रधानरामचरितं प्रधानसीता चरितं कृतवानिति । यच्चकार तद्वापयामासेति योजना, उत्तरश्लोके अगायतामित्यनुवादात् ॥७॥ तनि०-कलं मौतायाश्चरितमिति सीतायाः प्रबन्धनायिकात्व
For Private And Personal Use Only