________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सीता त्यक्ता रामेण ॥५॥ स त्विति । वेदेषु ऋग्यजुःसामाथर्वणलक्षणेषु चतुर्षु विषये, मेधाविनो मेधा धारणक्षमा बुद्धिः । " मेघा घीर्धारणक्षमा ” इति यादवः। तद्वन्तौ “अस्मायामेघास्रजो विनिः” इति मत्वर्थीयो विनिप्रत्ययः । अनेनाक्षरराशिग्रहणफलमध्ययनमुक्तम्। परितो निष्ठा परिनिष्ठा साङ्गाध्ययनं साऽनयोः सञ्जातेति परिनिष्ठितौ । तारकादित्वादितच् । अनेन विशेषणद्वयेनाधीतसाङ्गवेदत्वादापातप्रतिपन्नवेदार्थत्वाच्च तदुपबृंहणापेक्षित्वमुक्तम् । तौ | कुशलवौ । प्रभुः स्वतन्त्रो वाल्मीकिः वेदोपबृंहणार्थाय वेदोपबृंहणरूपप्रयोजनाय, वेदोपबृंहणरूपस्वग्रन्थपठनायेत्यर्थः । उपबृंहणं नाम- नानाशाखानु सारेण निर्णीतवेदार्थप्रतिपादको ग्रन्थः । अग्राहयत अगृह्णात् | स्वार्थे णिच् ॥ ६ ॥ तनि०- तुशब्देन इतरवैलक्षण्यमुक्तम् । मेवाविनौ ग्रहणधारणसमर्थों । वेदेषु परिनित्रितौ, अनेन स्वरानुगुणार्थज्ञानवत्त्वं साममानवेदित्वं तदादरेणैव गान्धर्वशास्त्राभ्यासश्व गम्पते । वेदोपबृंहणं- वेदार्थव्यक्तीकरणम् ॥ ६ ॥ काव्यमिति । चरित
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येव चकार चरितत्रतः ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्रतः चरितव्रतत्वेन निरतिशयज्ञानो वाल्मीकिः । काव्यं कवेः कर्म । कवयते वर्णयतीति कविः । “ कवि वर्णने ” इत्यस्माद्धातोरोणादिक इप्रत्ययः । लोकोत्तरवर्णननिपुण इत्यर्थः । यद्यपि " इगन्ताच्च लघुपूर्वात् " इति अणा भवितव्यम्, तथापि " ब्राह्मणादित्वात् ष्यञ् " इति काशिकाकारः । यद्वा तस्मादेव धातोः " ऋहलोर्ण्यत् ” इति ण्यत्प्रत्यये आदिवृद्धौ च काव्यमिति रूपम् । दोषवर्जितं गुणालङ्कारसहितम्, शब्दार्थयुगलमित्यर्थः । तदुक्तं काव्यप्रकाशे-" तददोषौ शब्दार्थों सगुणावन लङ्कृती पुनः क्वापि " इति । वेदोपबृंहणत्वेऽपि कान्तासम्मितत्वादस्य काव्यत्वव्यपदेशः । तथाहि त्रिविधः सन्दर्भः, प्रभुसम्मितः सुहृत्सम्मितः कान्तासम्मितश्चेति । शब्दप्रधानो वेदः प्रभुसम्मितः, अर्थप्रधान इतिहासादिः सुहृत्संमितः, व्यङ्ग्यप्रधानं काव्यं कान्तासंमितम् । महदिति काव्यविशेषणम् । तस्य महत्त्वमुत्तमकाव्यत्वम् । तदप्युक्तं तत्रैव - " इदमुत्तममतिशायिनि व्यङ्गये। वाच्याद्धनिर्बुधैः कथितः" इति । यद्वा महत्काव्यं महाकाव्यम् । तल्लक्षणमुक्तं दण्डिना - " सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् इत्यादिना । ननु काव्यं नारम्भणीयं “ काव्यालापांश्च वर्जयेत् " इति निषेधादित्याशङ्कयाह - रामायणमिति । रमयतीति रामः । “ रामो रमयतां स त्वित्यादिश्लोकद्वयमेकं वाक्यम्। वेदोपबृंहणार्थाय वेदार्थव्यक्तीकरणाय । सीतायाश्वरितं पौलस्त्यवधमिति यच्चकार तत्काव्यं तावग्राहयतेति योजना ॥ ६ ॥ ७ ॥
"
For Private And Personal Use Only