________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.
टी.बा.को.
| स०४
चार-चतुर्विंशदिति । ऋषिर्वाल्मीकिः तपःस्वाध्यायेत्यारभ्य तद्ब्रह्माप्यन्त्रमन्यतेत्यन्तेन चिकीषिते रामायणाख्ये प्रबन्धे श्लोकानां चतुर्विशत्सहस्रा युक्तवान् । इकारलोपश्चान्दसः। “पतिविंशति-" इति सूत्रे विशतीत्येव निपातनात् । “आदशतः सङ्ख्याः सङ्ख्येये वर्तन्ते, ततः परं सङ्ख्याने सङ्येये च वर्तन्ते" इति नियमात् । सहखशब्दोत्र संख्यापरः । चतुर्विशतिसहस्रसङ्ख्याक श्लोकांश्चकारेत्यर्थः। तथेति समुच्चये । पञ्चसर्गशतांश्च कृतवान्। “शतायुतप्रयुताः पुंसि च" इति लिङ्गानुशासनवचनात पुल्लिङ्गत्वम् । सर्गशतं पञ्चति पाठे शतमित्येतत् “ पङ्क्तिविंशतित्रिंशचत्वारिंशत्पञ्चाशत्षष्टि । सप्तत्यशीतिनवतिशतम्" इति सूत्रे शतमिति बहुत्वे निपातनात्साधु । षटकाण्डानि उत्तरं च षड्भ्यः उत्तरं सप्तकाण्डं च कृतवान्, परत्वमोक्षप्रद त्वादीनां व्यक्ततया प्रतिपादनेन सर्वोत्तरत्वादुत्तरमिति पृथगुक्तिः । यद्यप्याधुनिके पाठे श्लोकानां सर्गाणां च विपर्यासो दृश्यते तथापि बहुचतुर्युगा आन्तरितत्वेन विप्लवो युक्तः । यदा सङ्कल्पमात्रपरोऽयं शोकः । कृतवान् कर्त्तमुद्युक्त इत्यर्थः । ग्रन्थसमाप्तिदशायां कापि वृद्धिरुपजातेति न कोऽपि विरोधः । यद्वा अन्यूनाभिप्रायमिदं वचनम्, पञ्चशतसर्गेषु चतुर्विशतिसहस्रलोकेषु च न न्यूनतेत्यर्थः । यद्वा अल्पीयसीमधिकसङ्ख्यामनाहत्य प्रकृष्ट सङ्ख्यया व्यपदेशोऽयम् । यथा “ मन्वन्तरं तु दिव्यानां युगानामेकराप्ततिः” इत्यमरः । " चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । " इत्युक्तब्रह्म दिनस्य चतुर्दशमन्वनुसारेण चतुर्दशधा विभागे मन्वन्तरस्यैकसप्तत्याधिक्यात् । वर्तमानसङ्ख्या तु-“बालकाण्डे तु सर्गाणां सप्तसप्ततिरीरिता । अयोध्याकाण्डगास्सर्शितंचैकोनविंशतिः । आरण्यकाण्डे सर्गाणां पञ्चसप्ततिरीरिता । किष्किन्धाकाण्डगास्सर्गास्सप्पष्टिरुदीरिताः । सगाणां सुन्दरे काण्डे त्वषष्टिरुदीरिता । एकत्रिशैच्छतं सर्गा दृश्यन्ते युद्धकाण्डगाः । दशोत्तरशतं सगा उत्तरे काण्ड ईरिताः । ६४७ ॥ अत्र सर्ग शतान् पंच इत्येतत् षट्काण्डानामेव, न तु सांत्तराणाम्, षट्काण्डानीत्येतत्प्रत्यासत्तेः । चतुर्विशतिसहस्रश्लोकात्मकता तु सप्तकाण्डापेक्षये त्यप्याहुः । “बालकाण्डगताः श्लोकाश्चमरारिप्रकीर्तिताः (२२५६) । अयोध्याकाण्डगाः श्लोकाश्शुकभावाः प्रभाषिताः (४४१५)। आरण्य काण्डगाः श्लोकाः खगसाराः प्रदर्शिताः (२७३२) । किष्किन्धाकाण्डगाः श्लोका नीरचाराः प्रकीर्तिताः (२६२०)। श्लोकास्तु सुन्दर काण्डे ताना नागा प्रभाषिताः (३०.६) । युद्धकाण्डगताः श्लोका निधिधीशाः प्रवेदिताः (५९९०)। श्लोकाः स्युरुत्तरे काण्डे बलरागाः प्रभाषिताः (३२३४) द्विसहस्रादुपरि द्विशतं चाशीतिम्रन्थाः (२२८०), श्रीमदयोध्याकाण्हे चतुस्सहन.णि चतुःशतानि पक्षदशग्रन्थाः (४४१५), श्रीमदारण्यकाण्डे-द्विसहस्रा परि सप्तशतानि द्वात्रिंशद्न्याः (२७३२), श्रीमत्किष्किन्धाकाण्डे-द्विसहस्रादुपरि षट्शनानि विंशतिग्रन्थाः ( २६२०), श्रीमत्सुन्दरकाण्डे-त्रिसहस्रा
॥४
॥
HTML
For Private And Personal Use Only