________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पादितवान् । यत्किञ्चिदित्यनेन सीता विसर्जनात्पूर्वकालस्य भूयस्त्वमनन्तरकालस्याल्पत्वं च द्योत्यत इत्याहः । एतदुत्तरकाण्डे विचारयिष्यते ॥३८॥ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ पूर्वस्मिन् सर्गे प्रतिपाद्यवैलक्षण्यमुक्तम्, सम्प्रति प्रबन्धवैलक्षण्यं कथ्यते । प्रबन्धस्य वैलक्षण्यं नाम-परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं महाजनपरिगृहीतत्वं प्रबन्धनायक श्लाघितत्वमित्यादि । परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं चानेनोच्यते । प्राप्तराज्यस्य स्वीकृतराजभावस्य । पुरोहितादित्वाद्यक प्रत्ययः । लोकरक्षणाय रघुकुलेऽवतीर्णस्ये त्यर्थः । रामस्य सकलगुणाभिरामस्य, अनेन प्रतिपाद्यमहिमा काव्यस्य आदरणीयतातिशय उक्तः। तदुक्तं भामहेन - "उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्र पदमात्मवान् ॥ १ ॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट्राण्डानि तथात्तरम् ॥ २ ॥
काव्यसम्पदः" इति । विचित्रपदं आश्वर्यपदसंनिवेशम् । अनेन काव्यस्यात्मभूता रीतिरुक्ता । तदुकं वामनेन - "रीतिरात्मा काव्यस्य । विशिष्टपदरचना रीतिः । समग्रैरोजः प्रसादप्रभृतिभिर्गुणैरुदिता वैदर्भी नाम रीतिः" इत्यादिना । यद्वा विविधानां विचित्राणां शब्दार्थालङ्काराणां पदं स्थानं कृत्स्नं चरितं प्रतिपादकग्रन्यसन्दर्भम् अनेन विज्ञानाद्यनेकफल सुपुरुष चरित्रत्वमुक्तम् । तथोक्तम्- "परिवह विणणं सम्भाविजय जसो विसप्पन्दि गुणा । सुव्यइ | सुपुरितचारिअं किंतज्जेण ण हरन्ति कव्वालावा ॥ छा०-परिवर्द्धते विज्ञानं सम्भाव्यते यशो विसर्पन्ति गुणाः । श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः ॥ " इति । भगवान् ब्रह्मप्रसादलब्धदिव्यज्ञानवान् । आत्मवान् प्रबन्धरचनानुकूलयत्रवान् । ऋषिः " नानृषिः कुरुते काव्यम्" इत्युक्त रीत्या काव्यनिर्माणपटुः वाल्मीकिः, चकार परोपकाराय कृतवान् । उदारधीरिति पूर्वमुक्तम् । प्रातराज्यस्येत्यनेन रामराज्यकरणकाले रामायणकरण मिति गम्यते । एतज्ज्ञापनायैव पुनरारम्भः || १ || अथ प्रक्षेपभ्रंशसम्भावनापरिहाराय नातिसंकोचविस्तर लोकसगंकाण्डवत्तयात्यन्तादरणीयत्वाय अनागतं यत्किञ्चिदित्यनेन सीतानिसर्जनात्पूर्वकालस्य भूयस्त्वम् अनन्तरकालस्यल्पना योत्यते ॥ ३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका रूपायां बालकाण्डव्याख्यायां तृतीयः सर्गः ॥ ३ ॥ प्राप्तराज्यस्येति । सम्बन्धसामान्ये षष्ठी "ते वयं भवता रक्ष्या भवद्विषयवासिनः" इति ऋषिभिरेवोकत्वात रामस्य विषये वसन वाल्मीकिरित्यर्याल्लभ्यते । चरितं चरित्रप्रतिपादकं काव्यम् ॥ १ ॥ चतुर्विंशदिति । शतशब्दः पुत्रपुंसकः। चतुर्विशत्सहस्राणि ' इति श्लोकपरि गणनं तपःस्वाध्यायेत्यारभ्य तद्ब्रह्माप्यन्वमन्यतेत्यन्तस्य लोकसमुदायस्य । सर्गशतान पञ्चेत्येतत् षट्काण्डानामेव, न तु सोनराणाम् । तथाहि श्रीमद्वालकाण्डे
For Private And Personal Use Only